________________
सररररररररररररररा22बाररररररररररररररररर
ज्ञानेनेत्यादि- ये पथि सन्मार्गे सन्तस्तिष्ठन्त इत्यतश्च ज्ञानेन विवेकेन हेतुनाऽऽनन्दमुपाश्रयन्तःसमसुखमनुभवन्तः सदा ब्रह्म चरन्ति आत्मानमेवानुशीलयन्ति, तेषां गुरूणां दिगम्बर-परमर्षीणां तथा च ज्ञानानन्दनामधारकाणां परमब्रह्मचारिणां विद्यागुरूणां सदनुग्रहः कृपाकटाक्ष एवं मम कवित्वशक्तौ कविताकरणे तथैव कं वेत्तीति कवित् तस्य भावः कवित्त्वं तस्य शक्तावात्मसम्वेदनेऽपि विघ्नलोपी भूयात् ॥६॥
वीरोदयमित्यादि - यमिमं वीरोदयं नाम भगवच्चरित्रं विदधातुं पूर्णतया वर्णयितुं श्रीगणराजदेवो गौतमस्वाम्येव शक्तिमान्नाभूत् तम्प्रतीदानीमहं विदधातुमिच्छुः सन् जलं गच्छतीति जलगश्चासाबिन्दुश्च तस्य तत्त्वं जलगतचन्द्रबिम्बं वहन् बालसत्त्वम् बालकवदज्ञानभावमेव विदधातुमिव । अथवा पुनरलसत्वमेव स्वीकरोमि, यतः कर्तुं न शक्नोमीति लाघवम् ॥७॥
शक्त इत्यादि - अथवा तु पुनरुपायादहमपि शक्तो भवितास्मि युक्तिबलेन समर्थयिष्यामि, यतः किल ते श्री गुरवः सहाया भवन्तु तावदित्येतदेव पुष्णाति-यथा शिशुरेव शिशुको लघुतरबालकोऽपि पितुः सम्बन्धिनो बिलब्धा संधृताऽगुलिमूलस्य तातिः पङ् क्तिर्येनेत्येतादक सन् यथेष्टदेशं वाञ्छितस्थानं यात्येवेति । दृष्टान्तोऽलङ्कार ॥८॥
मन इत्यादि - यत्राङ्गिनां संसारिणां मनो यस्य श्रीवीरभगवतः पदे चरणौ तयोश्चिन्तनेन स्मरणमात्रेणैवानेनः पापवर्जितं सत् किलामलतां स्वच्छतां समेति तत्र तदीयवृत्तस्य चरित्रस्यैकमनन्यतया समर्थनं यस्यां सा मे वाक् वाणीयमात्तः सुवर्णानां शोभनवर्णानां भावो ययैतादृशी किन्न समस्तु स्यादेव । यदि-पदेनैकशब्देनामलत्वं स्फटिकत्वं तदावृत्तेनानेकानेकशब्दात्मकेन सुवर्णता किं खलु दुर्लभेति यावत् रलयोरभेदादमरतां देवत्वमेति भव्यानां मन इति च ॥९॥
रज इत्यादि - आविलं मलिनं च रजो यथा पुष्पसमाश्रयेण किल सतां गलस्यालङ्करणाय भवति तथैवेदं मद्वचनमपि किन्नास्तु भवत्येव, येनेदं वीरोदयस्य श्रीमद्वीरप्रभोश्चरितनिर्माणकरणस्य योऽसावुदारविचारः स एव चिहं यस्येत्येतादृक् समस्ति । वक्रोक्तिर्दृष्टान्तश्चालङ्कारः ॥१०॥
लसन्तीत्यादि-अथापि पुनर्यथाऽयो लोहधातुःरसैः पारदादिभिःसंयोगात् सुवर्णत्वमुपैति तथैव निस्सारमप्यस्मद्वचनं येन वचनेनार्हतः परमेष्ठिनो वृत्तस्य चरित्रस्य विधान निर्माणं तदापि स्वीकृतं तदपि भवतु यस्योपयोजनाय स्वीकरणाय सन्तः परदुःखकातरा जना लसन्ति वर्तन्तेऽस्मिन्भूतले, इति शेषः ॥११॥
सतामित्यादि - सतां साऽनिर्वचनीया गुणग्रहणरूपा शुद्धिः सहजेन स्वभावेनानायासेनैव भवति यतस्तेषां बुद्धिर्विचारशक्तिः परोपकारे परेषां प्राणिनामनुग्रह एव निरता तल्लीना भवति यथैषोऽस्मदादीनां दृक्पथमुपगतस्तरुराम्रादिः स उपद्रुतः पाषाणादिनोपहतोऽपि सन् तस्मायङ्गभृते प्राणिने त्रिकालं सर्वदैव यथा स्यात्तथा रसालं सरसं फलं श्रणति ददाति, न तु रुष्टो भवति ॥१२॥ ___ यत्रेत्यादि - यस्य सोधयुक्तिः सदैवान्यगुणाय परगुणग्रहणाय परस्मिश्च गुणसम्पादनाय वा भवति तस्य सूक्तिमजुवागपि सुधेव रुचिरामृतधारेवोपयोगिनी, अथ च सुधेव चूर्णकलिकेव गुणवती यत्रानुरागार्थं प्रीत्यर्थं शोणिमसम्पत्त्यर्थं च समवायहेतोः परस्परं सम्मेलं कर्तुमिदमस्माकं चेतोऽन्तः करणं कर्तृ, तत् हारिद्रवत्वं हारि मनोहरं च तद्रवत्वं चाथवा हरिद्राया इदं हारिद्रं तद्वत्त्वं तावदुपैति ॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org