________________
तृतीयस्याध्यायस्य द्वितीयमाह्निकम् ।
66
स्मरणेन आत्मा अनुमीयते । न स्मृतिरिन्द्रियाणामन्येन दृष्टेऽर्थेऽन्यस्य । न शरीरावयवस्य, अवस्थामेदेन भिद्यमानत्वात् । 'देवदत्तस्य रूपरसगन्धस्पर्शप्रत्यया एकानेकनिमित्त:, ' मया' इति प्रत्ययेन प्रतिसन्धानात्, कृतसङ्केतानां बहूनामेकस्मिन् नर्तकी - अक्षेपे युगपद ने कप्रत्ययवत्" [ न्यायवार्तिक १ । १ । १० ] इति उद्द्योतकरः ।
सुखादयश्च गुणिसापेक्षाः, गुणत्वात्, रूपवत् ।
द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ३ । २ । ५ ।
। ।
अद्रव्यवत्त्वात् परमाणुवायोरिव द्रव्यत्वनित्यत्वे ।
ननु च
यज्ञदत्त इति सति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते | ३ | २ | ६।
यथा चाक्षुषार्थसन्निकर्षे सति यज्ञदत्तोऽयमिति प्रत्यक्षं भवति न तथा प्राणादिसुखादिसम्बद्धोऽयमात्मेति ज्ञानं जायते । अथ कथमदृष्टसम्बन्धं प्राणादि आत्मनो लिङ्गम् ! तदाह-न प्राणादि दृष्टं लिङ्गम् ।
सामान्यतो दृष्टाच्चाविशेषः । ३ । २ । ७।
प्राणादीनां निर्निमित्तानां सुखादीनां चानाश्रितानामनुत्पत्तिः, अत एषां केनापि निमित्तेनाश्रयेण भाव्यम्, इत्यतोऽपि सामान्यतो दृष्टादाकाशादीनामनिरासादविशेषः, तेषामपि हेतुत्वसम्भवात् ।
२९
तस्मादागमिकम् । ३ । २ । ८ ।
' आत्मास्ति ' इति प्रवादमात्रमित्यर्थः ।
नैतत्,
अहमिति शब्दव्यतिरेकान्नागमिकम् । ३ । २ । ९ ।
अहमिति शब्देन क्षित्यादिभिन्नात्मद्रव्यविषयेण ऐकाधिकरण्यात् 'अहं प्राणादिमान्, अहं सुखवान्' इति । तस्मात् प्राणादिलिङ्गत्वान्नागमिकम् ।
Jain Education International
For Private & Personal Use Only
5
10
15
१ शरीरस्य 0. । २ दृश्यतां नयचक्रवृत्तिः पृ० ५४७ पं० १६ | तत्त्व संग्रह पञ्जिका. ० १८०-१८१ । ३ 'चक्षुषा अर्थसन्निकर्षे ' इति पाठोऽत्र समीचीनो भाति । ४ क्षित्यादिविभिन्ना 0.25
श्लो०
20
www.jainelibrary.org