________________
३०
चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे
ननु च
यदि च दृष्टप्रत्यक्षोऽहं देवदत्तोऽहं यज्ञदत्त इति । ३ । २ । १० ।
यदि खल्वहं देवदत्तोऽहं यज्ञदत्त इत्यात्मनि दृष्टप्रत्यक्षमिदं भवेत् एवं युज्येत अहंशब्दस्यात्मवाचकत्वम्, यावता शरीरामिधायक देवदत्तशब्दै कार्थाधिकरणत्वादहं5 शब्दोऽपि शरीरवाचकः । तस्मान्न प्राणादिसुखादीन्यात्म निर्णय हेतुः ।
देवदत्तशब्दः कथं शरीरे इत्याह
देवदत्तो गच्छति विष्णुमित्रो गच्छतीति चोपचाराच्छरीरप्रत्यक्षः | ३ । २ । ११ ।
गमनवाचिना 'गच्छति' इति शब्देन सह प्रयोगाद् देवदत्तशब्दः शरीरवचनो10 Sवसीयते आत्मनो गत्यसम्भवात् । तस्मादहंशब्दोऽपि शरीरे एव, देवदत्तशब्देन
सह दृष्टत्वात् ।
नैतत्,
25
सन्दिग्धस्तूपचारः | ३ । २ । १२
देवदत्तशब्देन एकार्थाधिकरणत्वाद् योऽयमुपचारोऽहं शब्दस्य शरीरे स सन्दिग्धः, 15 किं शरीरस्य आत्मोपकारकत्वादहंशब्द आत्माभिधायक उपचरित उत मुख्यतया शरीरस्याभिधायकः ? इति न शरीरात्मनोरहंशब्दस्य निश्चयः ।
स्वपक्षे निश्चयमाह
अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तर प्रत्यक्षः । ३ । २ । १३ ।
20
प्रत्यगात्मनीति आत्मनि, परत्रेति शरीरे । यदि अहंशब्दः शरीरवचनः स्यात् एवं सति तस्मिन् पिण्डे देवदत्तशब्द इव सर्वैः प्रयुज्येत । न त्वेवम्, अत आत्मन्यर्थान्तरे ' अहं 'शब्दः प्रत्यक्षः ।
शरीर इव आत्मन्यपि परैरप्रयोगान्न स्यादिति चेत्, अत आह
न तु शरीरविशेषाद् यज्ञदत्त विष्णुमित्र योर्ज्ञानविशेषः । ३ । २ । १४ ।
१ यदि दृष्ट । २ प्राणादिसुखादीनां निर्णयहेतुः OP
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org