________________
तृतीयस्याध्यायस्य द्वितीयमाह्निकम् ।
यज्ञदत्त विष्णुमित्रयोः सम्बन्धिनः शरीरविशेषाद् यथा दृष्टाद् न तदीये सुखादावस्मदादीनां जायते ज्ञानं तथैव न तदीयाहङ्कारोऽस्माभिः संवेद्यते यतोऽहंशब्दः प्रयुज्येत । शरीरवाचकत्वे तु यथा शरीरं दृष्ट्वा तत्र देवदत्तशब्दं प्रयुञ्जते तद्वदिममपि प्रयुञ्जीरन्, न त्वेवम् । तस्मान्न शरीरे | आत्मवृत्तित्वे तु परैरप्रयोगः । एवमहंशब्देन एकाधिकरणस्वात् सुखादय आत्मविषयाः प्राणादयश्च तन्निमित्ताः ।
ननु*
सुखदुःखज्ञाननिष्पश्पविशेषादेकात्म्यम् । ३ । २ । १५ ।
यथा सल्लिङ्गा विशेषाद् विशेष लिङ्गाभावाच्चैको भावस्तथैव सुखदुःखज्ञानानां निष्पत्य विशेषाद विशेषलिङ्गा भावाच्चैकात्म्यम् ।
नैतत् *
३१
॥ तृतीयोऽध्यायः ॥
Jain Education International
·
नाना व्यवस्थातः । ३ । २ । १६ ।
अन्यस्य सुखादियोगेऽन्यस्य तदभावादनया व्यवस्थया नाना आत्मानः ।
शास्त्रसामर्थ्याचेति । ३ । २ । १७ ।
'ग्रामकामो यजेत, स्वर्गकामो यजेत ' [ ] इत्यतोऽपि शास्त्रसामर्थ्याद् नाना आत्मानः । तस्य गुणाः बुद्धिसुखदुःखेच्छाद्वेष प्रयत्नादृष्टसंस्कारा वैशेषिकाः । 15 अन्ये तु संख्यापरिमाणपृथक्त्वसंयोगविभागाः ।
'विष्णुमित्रसम्बन्धेन P. । २** एतचिह्नान्तर्गतः पाठः O मध्ये नास्ति । ३ षादैक्यम् P ४ शास्त्रसामर्थ्याच्च । तृतीयोऽध्यायः PS.
For Private & Personal Use Only
10
www.jainelibrary.org