________________
चतुर्थस्याध्यायस्याद्यमाह्निकम् । एवं द्रव्याण्युक्त्वा नित्यत्वमुपलब्ध्यनुपलब्धी च तेषु कथयति प्रसादन्यत्
सदकारणवत् तन्नित्यम् । ४।१।१। अद्रव्यवत्त्वादित्यनेन यत् सत् कारणरहितं तद् नित्यमुक्तं परमाण्वादि । उपलब्धौ तु
तस्य कार्य लिङ्गम् । ४।१।२। तस्य परमायादेरिन्द्रियैरगृह्यमाणस्यापि शरीरमहाभूतादि कार्य लिङ्गम् । यतः
कारण भावाद्धि कार्यभावः । ४ । १।३ । 10 यस्मात् कारणेभ्यस्तन्त्वादिभ्यः पटादि कार्यमुत्पद्यतेऽतः कार्यस्य कारणपूर्वकत्वात् कारणस्य कार्य लिङ्गम् ।
अनित्यमिति च विशेषप्रतिषेध भावः । ४ । १ । ४ । यदा खलु सर्व कार्यमनित्यम्' इत्युच्यते तदानेन नित्यत्वस्य विशेषप्रतिषेधेन कार्यविषयेण किञ्चित् कारणं नित्यमिति ज्ञायते ।
अविद्या च । ४ । १ । ५। अविद्या अग्रहणमतीन्द्रियत्वेन परमाणूनाम् , तदपि अनित्यत्वं निवारयति । अदृश्यमाने ह्यर्थे तद्गतमनित्यत्वं केन गृह्य त ? तस्मान्नानित्यता वक्तुं शक्या ।
१ सदकारणवन्नित्यम् 0. PS. मि. उ.। विशालामलवती. पृ० ११७ ३ । “ सदकारणवत्त्वा(त्त?)न्नित्यम्"-प्रमाणसमुच्चयवृत्ति. T1 पृ० ३९ a, T2 पृ० १२० b। यथा P. मध्ये 20 तथा नयचक्रवृत्तौ [पृ० ३९. पं० ८ ] अपि 'सदकारणवत् तन्नित्यम्' इति पाठ उपलभ्यत
इति सोऽपि प्राचीनः पाठः । २ भूतादिकं लिङ्गम् 0.। ३ अनित्यमिति च विशेष प्रतिषेधभावः PS. । अनित्य इति विशेषतः प्रतिषेधभावः-उ. । अनित्यमिति विशेषप्रतिषेधाभावः 0. । अनित्यमिति न विशेष प्रतिषेधभावः P. । “ यदपि नित्यत्वे द्वितीयं कारणमुक्तम्-अनित्यमिति च विशेषतः प्रतिषेधाभाव इति"-ब्रह्मसूत्रशांकरभाष्य २ । २ । १५ । ' यदपि द्वितीयमिति । लन्धरूपं
हि कचित् किञ्चिदन्यत्र निषिध्यते तेन ‘अनित्यम् ' इति लौकिकेन निषेधेन अन्यत्र नित्यत्वसद्भावः 25 कल्पनीयः । ते चान्ये परमाणव इति । "-ब्रह्मसूत्रशांकरभाष्यभामती. २ । २ । १५ ।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org