SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्याध्यायस्य प्रथममाह्निकम् । उपलब्धिः कथमिति चेत्, महत्यनेकद्रव्यवत्त्वाद्रपाचोपलब्धिः । ४।१।६। महत्त्वपरिमाणसमवायिनि द्रव्ये समवायिकारणद्रव्यवहुत्वाद् रूपाच शुक्लादेनिं भवति । ४. ... कुत एतत् ! यतः _ अद्रव्यवस्वात् परमाणावनुपलब्धिः । ४।१।७। सत्यपि रूपे परमाणोः समवायि कारणद्रव्याभावानोपलब्धिः । रूपसंस्काराभावाद वायावनुपलब्धिः । ४ । १।८। सत्यपि अनेकद्रव्यवत्त्वे महत्त्वे च रूपाख्यस्य संस्कारस्याभावाद वायावनुपलब्धिः। अनेकद्रव्यताया विशिष्टाया ग्रहणात् व्यणु केऽप्यनुपलब्धिः सिद्धा । 10 रूपे कथम् ! अनेकद्रव्येण द्रव्येण समवायाद रूपविशेषाचोपलब्धिः । ४।१।९। महता अनेकद्रव्यसमवायिद्रव्येण घटादिना रूपगुणस्य समवायाद् रूपविशेषाच रूपत्वाख्यात् सामान्यविशेषादुपलब्धिः । एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । ४ । १।१०। 15 एतेन अनन्तरोक्तेन न्यायेन अनेकद्रव्येण द्रव्येण समवायाद् रसत्वादिसामान्यविशेषेभ्यश्च रसादीनामुपलब्धिः । ___ तदभावादव्यभिचारः। ४ । १ । ११ । परमाणुरूपस्यानेकद्रव्येण द्रव्येण समवायाभावान्नोपलब्धिः, ततोऽनेकद्रव्येण [द्रव्येण ] समवायस्य रूपोपलब्धेश्वाव्यभिचारः । __संख्याः परिमाणानि *पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाञ्चाक्षुषाणि । ४ । १ । १२ । रूपीति विशिष्टं रूपि, तेन उपलब्धियोग्येन रूपिणा समवायादेतानि चाक्षुषाणि १ अत्र ?]ग्रहणात् P.। २ अनेकद्रव्येण समवायाद् PS. 0.। ३ अनेकसमवायि• 0.। ४ स्यानेकद्रव्येग समवाया 0.। ५ * * एतच्चिह्नान्तर्गतः पाठः P मध्ये नास्ति । ६ रूपिसमवाया 0.। 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy