________________
चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे
नैतत् ,
संयोगि, समवायि, एकार्थसमवायि, विरोधि च । कार्य कार्या. न्तरस्य, कारणं कारणान्तरस्य । विरोध्यभूतं भूतस्य, भूतमभूतस्य,
अभूमभूतस्य, भूतं भूतस्य । ३ । १।८। 5 धूमोज्नेः संयोगि । विषाणं गोः समवायि । एकार्थसमवायि द्विधा-कार्य कार्यान्तरस्य, ___ यथा रूपं स्पर्शस्य, कारणं कारणान्तरस्य, यथा पाणिः पादस्य । चतुर्धा विरोधि
अभूतं वर्षकर्म वाचनसंयोगस्य भूतस्य* लिङ्गम् , भूतं वर्षकर्म वायवभ्रसंयोगस्याभूतस्य लिङ्गम् , अभूता श्यामता*अभूतस्याग्निसंयोगस्य लिङ्गम् , भूतं कार्य भूतस्य
कारणसंयोगस्य लिङ्गम् । तस्मादिह प्रसिद्धानामिन्द्रियार्थानां करणता कर्मता च सम. 10 वायिनी आत्मलिङ्गम् । न ते आत्मनि समवायिनी इति चेत् , एवमेतत्, अन्यथा तु प्रयोगः-इन्द्रियाणि कर्तृप्रयोज्यानि करणत्वाद् वास्यादिवदिति । संयोग्यादीन्येव कथं लिङ्गमित्याह
प्रसिद्धपूर्वकत्वादपदेशस्य । ३ । १ । ९ । प्रसिद्धो यः संयोग्यादि सम्बद्धो येन सह ज्ञातः स तस्यार्थान्तरस्यापि लिङ्गं 15 सम्बद्धत्वात्, नासम्बद्धम् । तथाहि
अप्रसिद्धोऽनपदेशः । ३ । १ । १० । अप्रसिद्धो विरुद्धः, यस्य साध्यधर्मेण सह नैवास्ति सम्बन्धः, अपि तु विपर्ययेण, असावनपदेशोऽहेतुः । 20 १ अभूताभूतस्य च भूभूतस्य 0.। २ ** लिङ्गं भूता श्यामता 0.। ३ प्रसिद्धिपू
PS. मि. उ.। स्वार्थानुमानपरिच्छेदे [ 11 पृ० ३८b पं० १, ७, T° पृ० १२०३, १२०b ] परार्थानुमानपरिच्छेदे [ T1 पृ. ६५b, T° पृ० १४८ b] च प्रमाणसमुच्चयवृत्तौ दिङ्नागेनो
तमिदं सूत्रम् । तस्य [ T=Tibetan ] भोटभाषानुवादे ' प्रसिद्धपूर्वकत्वादपदेशस्य ' इति पाठः सम्भाव्यते । ' प्रसिद्धपूर्वकत्वादपदेशस्येति । यस्य धूमोऽग्नेः संयोगीति पूर्व सम्बन्धग्रहणकाले प्रसिद्धस्तस्यैव 25 धूमदर्शनादग्न्यनुमानं नेतरस्य । तस्माद् धूमादिप्रतीतिरेव लिङ्गम् । तद्विषये तु लिङ्गत्वमुपचर्यते [पृ०
११५b] 1......... प्रसिद्धपूर्वकत्वादपदेशस्य...। कथम् ? यस्य धूमादयोऽग्न्यादिभिः सम्बद्धा अप्रसिद्धाः तं प्रति धूमादयोऽनपदेशाः [पृ० ११६० ११७३] 1"-विशालामवती । ४ १०-११ सूत्रयोः उ.मध्ये 'अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः' इति पाठोऽत्रवदेवास्ति । अन्यत्र तु-'अप्रसिद्धोऽनप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org