________________
__10
तृतीयाध्यायस्यायमाह्निकम् । एवं दिगन्तानां वैधHमुक्त्वा आत्मानमुपक्रमते
- प्रसिद्धा इन्द्रियार्थाः । ३ । १ । १ ।। - शब्दादयो यस्माद् गुणादिस्वभावाः प्रसिद्धाः, तेभ्यश्चेन्द्रियाणि । अत इदानीम्
इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरत्वे हेतुः । ३ । १।२।।
ग्राह्याणामर्थानां शब्दादीनां येयं प्रसिद्धिः तया च श्रोत्रादीनां करणानाम् , अनया इन्द्रियार्थसिद्धया एभ्यो ग्राह्य-ग्रहणेभ्य इन्द्रियार्थे प: परो ग्रहीता आत्मा अनुमीयते ।
_____ सोऽनेपदेशः । ३ । १ । ३ । ग्राह्यग्रहणप्रसिद्धयाख्यो ग्रहीतृसद्भावे यो हेतुरुक्तः सोऽनेपदेशः, अकारणमित्यर्थः । किमात्मकत्सनया ? कथमिन्द्रियाणि ग्रहीतृण्येव न भवन्ति ! नैतत् ,
कारणाज्ञानात् । ३ । १ । ४ । भूतानामिन्द्रिय कारणानामज्ञत्वात् तत्कार्याणीन्द्रियाण्यपि अज्ञानि । भूताज्ञानम्
कार्याज्ञानात् । ३ । १ । ५। अन्यस्य भूतकार्यस्य घटादेरज्ञत्वाद् भूतान्यप्यज्ञानि ।
अज्ञानाच । ३ । १ । ६। भूतानामज्ञानादिन्द्रियाण्यपि अज्ञानि इत्युपसंहारार्थमिदं सूत्रम् ।
अन्य एव हेतुरित्यनपदेशः । ३ । १ । ७ । अन्यो “हेतुलक्षणव ह्य इत्यर्थः, तथाहि-इन्द्रयार्थपसिद्धिरिन्द्रियार्थधर्मत्वादात्मना असम्बन्धान तमनुमापयेत् , अतोऽनपदेशः ।।
___ 20 १ गुणा द्विस्व 0. । २ वाः सिद्धाः P.। ३ तया श्रोत्रादीनां कारगानाम् 0. । ४ णेपि । इन्द्रियार्थेभ्यो परो ) । ५ °नुपदेशः 0.। ६ कारणाकारणाज्ञानात् 0.। ७ °मज्ञानत्वात् कार्याणी° 0.। ८ हेतुर्लक्षण' 0. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org