SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्याध्यायस्य द्वितीयमाह्निकम् । कुतः कार्यत्वम् ? इत्याह संयोगाद् विभागाच्छन्दाच शब्दनिष्पत्तेः । २ । २ । ३६ । मेरीदण्ड संयोगाद् वस्त्रदलविभागाच्छब्दाच शब्दस्य वीचिसन्तानवनिष्पतेर्मन्यामहे - कार्यः शब्द इति । लिङ्गाच्चानित्यः । २ । २ .३७ । ' तेभ्यस्त्रयो वेदा अजायन्त' [ [] इति वचनाद् वैदिकालिङ्गादनित्यः । ननु नित्यः शब्दः, द्वयोस्तु प्रवृत्योरभावात् । २ । २ । ३८ । कार्याणां हि भावानां द्वे प्रवृत्ती - ऐका निर्वृत्तिः, अन्या कार्यविनियोगरूपा । शब्दस्य पुनरर्थप्रतिपत्त्यर्थैव प्रवृत्तिरुच्चारणारूपा, नात्मार्था, तस्मान्नित्यः । संख्याभावात् । २ । २ । ३९ । उच्चरितप्रध्वंसित्वे शब्दस्य ' द्विरयमाम्नातः ' [ "संख्याभ्यावृत्तिर्न भवेत्, अस्ति च तस्मान्नित्यः । २३ प्रथमाशब्दात् । २ । २ । ४० । प्रथमाशब्दादिति 'त्रिः प्रथमामन्वाह' [ ] इति वाक्यम्, शब्दस्य प्रथमाया ऋचोऽभ्यावृत्तिगणनं न स्यात्, अस्ति च तस्मान्नित्यः । सम्प्रतिपत्तिभावाच्च | २ | २ | ४१ | Jain Education International ] इति विनष्टत्वात् विनाशित्वे शब्दस्य स एवायं गोशब्द:' इति सम्प्रतिपत्तिः प्रेत्यभिज्ञा न तस्मान्नित्यः । For Private & Personal Use Only 5 उच्चरित विनाशित्वे 15 स्यात्, 20 ? च्छन्दाच्च निष्पत्तेः PS । २ वस्त्रदशाविभागा 0. । ( वंशदलविभागा ? ) ३ एका निवृत्ति: O P ४ कार्ये विनि 0. । ५ शब्दस्य स एवायं गोशब्दस्य द्विरयमाम्नातः 0. I ६ संख्याभ्यां वृत्ति O | संख्यायावृत्ति P। ७ ( भ्यावृत्तिर्गणनं ? ) । ८ सम्प्रतिपत्तिभावाच्च । द्वितीयोऽध्यायः PS ।९ प्रत्यभिज्ञानं न 0 10 www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy