________________
चन्द्रामन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे । सतोऽपि निमित्तादग्रहणमिति चेत् , न,
सतो लिङ्गाभावात् । २ । २। ३० । यत् सदपि निमित्तान्न गृह्यते तस्य लिङ्गं सद्भावप्राहकं भवति, शब्दस्य तूच्चारणादृवं संयोग्यादेर्लिङ्गस्याभावादसत्तैव ।
वित्र,
नित्यवैधात् । २ । २ । ३१ । उच्चरितपध्वंसो नित्यैर्वधर्म्यम् , तस्मादनित्यः । किश्च,
कार्यत्वात् । २ । २ । ३२ । कार्यश्च शब्दः, संयोगादिभ्य उत्पत्तेः । तस्मादनित्यः ।
10
किञ्च,
अभावात् । २। २ । ३३ । प्रागभावादित्यर्थः । प्रागभाववतो विनाशात् । प्रागभावश्चास्य कारणेभ्य उत्पत्तेः । न च तानि व्यञ्जकानि, कुतः !
कारणतो विकारात् । २ । २ । ३४ । यस्माद् भेर्यादिकारणेभ्यः शब्दस्य विकारोऽवगम्यते, महति भेर्यादौ महान् अल्पेऽरुपः । अभिव्यक्ती तु
दोषात् । २ । २ । ३५ । नित्यत्वेनाभिव्यक्तौ शब्दोऽन्येन यज्ञे प्रयुक्तो नान्येन प्रयुज्येत दर्भादिवद् यात20 यामत्वादिदोषात् । तस्मादनित्यः ।
.१ उच्चरितप्रध्वंसिनो नित्यवैधात् 0 । २ " शास्त्रे ‘कार्यत्वात् , कारणतो विकारात्' इति ।" -प्रमाणसमुच्चयवृत्ति T1 पृ० ३९ a, T2 पृ. १२० b । " शास्त्रे 'कार्यत्वात् , कारणतो विकारात् , संयोगाद् विभागाच्छन्दाच्च शब्दनिष्पत्तेः शब्दोऽनित्यः' इति कार्यत्वादयः
शब्दानित्यत्वहेतव उक्ताः । "-विशालामलवती पृ० ११७ ३ । “ सतो लिङ्गाभावात् , 25 कार्यत्वात् , कारगतो विकारात् "-नयचक्रवृत्ति पृ० ५५ पं० ११-१२, पृ० ८७ पं० १५ ।
'अभिव्यक्ती दोषात्' इति उ. मध्ये सूत्रपाठः । मि. मध्ये तु 'दोषात्' इत्येव सूत्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org