SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्याध्यायस्य द्वितीयमाह्निकम् । श्रोत्रेण गृह्यते योऽर्थः स शब्दः । सामान्यादीनामर्थशब्दस्यासङ्केतित्वाच्छब्दत्वं शब्दो मा भूदित्यर्थग्रहणम् । तस्मिन् द्रव्यं कर्म गुण इति संशयः । २ । २ । २५ । साधारणरूपत्वाद् द्रव्यादित्वेन शब्दे संशयः । तदाह 5 तुल्यजातीयेष्वर्थान्तरभूतेषु च विशेषस्योभयथा दृष्टत्वात् । २१ २ । २ । २६ । पृथिवीत्वं सजातीयात् सलिलादेः पृथिव्या विशेषो दृष्टः, असजातीयाभ्यां च गुणकर्मभ्याम् । ततः शब्देऽपि किमयं श्रोत्रप्राह्यत्वं विशेषो गुणैस्तुल्यस्यार्थान्तरभूतस्य वेति संशयः । नैतत्, एकद्रव्यवत्त्वान्न द्रव्यम् । २ । २ । २७ । एकस्मिन् द्रव्ये आकाशे वर्तमानत्वान्न द्रव्यमयं शब्दः, द्रव्यं द्रव्यं परमाण्वादि अनेकद्रव्यं वा घटादि । * अचाक्षुषत्वान्न कर्म * । २ । २ । २८ । द्रव्यं कर्म वा यदिन्द्रियान्तरप्रत्यक्षं तच्चाक्षुषमपि दृष्टम्, अयं तु शब्दः श्रोत्रप्रत्यक्षोऽपि सन्न चाक्षुषः । एवं स्थितो गुणः । Jain Education International किन्तु गुणस्य सतोsपवर्गः कर्मभिः साधर्म्यम् । २ । २ । २९ । कर्मभिरस्य पुनर्गुणभूतस्यापि साधर्म्यमपवर्गो विनाशः, उत्पत्त्यनन्तरमग्रहणाद् 20 विनाशोऽनुमीयते । For Private & Personal Use Only 10 [ गुजराती १ श्रोत्रेण यो गृह्यतेऽर्थः स शब्दः । श्रोत्रेण यो गृह्यते सामान्यादीना P अचाक्षुषत्वान्न PS.। अचाक्षुषत्वाच्च न कर्म P | अचाक्षुषत्वाच्च प्रत्यक्षस्य शब्दो न नापि कर्माचाक्षुषत्वात् - उ. [ चौखम्बाप्रकाशितः ] । नापि कर्माचाक्षुषत्वात् प्रत्ययस्य- उ प्रेस प्रकाशितः ] | नयचक्रवृत्तौ [पृ० ८७० १४, पृ० ५५ पं० ११ इत्यत्र ] तु २८-२९ 25 सूत्रे एकीकृत्य ‘अच्चाक्षुषप्रत्यक्षस्य गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम्' इति पाठ उद्धृत इति ध्येयम् । ३ साधर्म्यात् O. । 15 २ * * कर्म - मि. । www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy