________________
चन्द्रानन्दविरचितवृत्यलङ्कते वैशेषिकसूधे । दृष्टं यथादृष्टमयथादृष्टमुभयथा दृष्टत्वात् । २ । २ । २२ ।
आदौ कुन्तली देवदत्तो दृष्टः, मध्ये मुण्डः, तृतीयस्यामवस्थायां कुन्तली । चतुOमालापादिभिरवंगते आरूपमात्रेण च सन्ध्यादौ 'किमयं कुन्तली स्याद् उत मुण्डो वा' इति संशयः । पूर्वसूत्रेऽनेकार्थानुस्मृतेः संशयः, अनेन त्वेकार्थे विशेषानुस्मरणात् । 5 आभ्यन्तरस्तु
विद्याविद्यातश्च संशयः । २ । २ । २३ । - विद्या सम्यग्ज्ञानम् , अविद्या मिथ्याज्ञानम् । दैवज्ञेन शुभमादिष्टं सत्यमभूत् , द्वितीयमसत्यम्, तृतीयस्यामवस्थायां संशयः-किमाद्यावस्थावत् सत्यमुत द्वितीया
वस्थावदसत्यमिति । एवं कथितः संशयः । 10 तत्र शब्द एव तावत् कथ्यताम् –
श्रोत्रग्रहणो योऽर्थः स शब्दः । २।२ । २४ । उभयथा दृष्टत्वात् संशयः । यदि वा यथादृष्टं क्रियावत्त्वेन, पुनरयथादृष्टमस्पर्शवत्त्वेन, अत उभयथा दृष्टत्वात् संशय इत्युक्ते परेगाह-न युक्तमेतत् ।............ नियतसामान्यवस्तु प्रतिनियतविशेषैः
सहचरितमेकदा दृष्टम् , पुनस्तत्तुल्यमन्यविशेषाविनाभूतम् , अतः कालान्तरे देशव्यवधानात् तद् दृष्ट्वा 15 संशेते-किमिदमेवमाहोस्विदेवं न भवतीति । तथैकधर्मिविषयत्वेऽपि यथादृष्टमिति किञ्चिद् सामान्यवद्वस्तु
केनचिद् विशेषे ग सह दृष्टम् , अयथादृष्टं तदेव उपलब्धविशेषशून्यं विशेषान्तरसहितं दृष्टम् । अत उभयथा दृष्टत्वात् उभाभ्यां सह दृष्टत्वादुभयशून्यस्योपलब्धौ तत्स्मरणे च सति संशयो भवतीति। यथा देवदत्तं सकेशमुपलभ्य पुनर्निष्केशमतः कालान्तरे तमेव वेष्टितशिरसमुपलभमानस्य किमयं सकेशो
निष्के शो वेत संशयो भवतीति ।"- व्यो. पृ. ६०९ । “ ननु चेति तस्मिस्तस्मिन् सूत्र उभयथा 20 दर्शनमुभयप्रकारवद्धर्मवद्धर्मिदर्शनं संशयकारगमुक्तम् । तथाहि-दृष्टं च दृष्टवतः दृष्ट्वा संशयः ।
मूर्तधर्माविनाभूतधमवत्तया दृष्टमन्तःकरणं दृष्टवतोऽमूर्तत्वाविनाभूतास्पर्शवत्त्वेन तुल्यमन्तःकरणं दृष्ट्वा संशय .. इति भवति विरुद्वाव्यभिचारी संशयहेतुरित्युक्तम् । अपरं च सूत्रमसाधारणो धर्मः संशयहेतुरित्याह
यथादृष्टमयथादृष्टमुभयथा दृष्टत्वात् संशयः। यथादृष्टं येन धर्मेण सह दृष्टं पक्षे, अयथादृष्टं तत्तुल्यवति च सपक्षे न दृष्टं, विपक्षे च उभयथा साध्यसाधनप्रकारेग अदर्शनात् संशय इत्यसाधारणधर्मः संशयके कारणमुक्तः । समाधत्ते-नेत ।............ तथाहि-दृष्टं च विशेषद्वयसहचरितं तथाविधं दृष्टवतः दृष्ट्वा संशय इति सूत्रार्थः । यथादृष्टं येन विशेषेण सह दृष्टम् अयथादृष्टमपरविशेषेण सह दृष्टमिति
उभयथा दर्शनात् साधारणधर्मदर्शनादित्यपरसूत्रार्थः । ”—प्रशस्तपादभाष्यकिरणावली [ अपदेशा- भासनिरूपणे ] ।
१ यथादृष्टमयथादृष्टम् । उभयथा दृष्टत्वाच्च ।—मि.। यथादृष्टमयथादृष्टत्वाच्च-उ. । २ रवगतो P.। 30 ३ स्याद् मुण्डो वा P. । ४ पूर्वसूत्रेणैकार्थानुस्मृतेः .. ।
25 कार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org