________________
द्वितीयस्याध्यायस्य द्वितीयमाह्निकम् ।
सवितुरहराद येन कल्पितदिक्प्रदेशेन संयोगोऽभूद् भवति भविष्यति वा तस्मादादित्य संयोगात् 'प्राची' इति व्यपदेशः प्राञ्चत्यत आदित्यमिति ।
तथा दक्षिणा प्रतीच्युदीची च । २ । २ । १७ । अस्मादेवादित्यसम्प्रयोगाद् दक्षिण। दिव्यपदेशः ।
एतेन दिगन्तराणि व्याख्यातानि । २ । २ । १८ । अनेनैव प्रकारेण पूर्वदक्षिणादीनि दिगन्तराणि व्याख्यातानि ।
तत्रेदानीमात्मा करणैरधिगन्तव्यः, करणानि शब्दादिभ्यो गुणेभ्यः । ननु गुणत्वमसिद्धं शब्दादीनां सिद्धं कृत्वोच्यते । ननु गुणत्वे कुतः संशयः ? आह- किं संशयोऽपि हेतुमान् ? एवमेतत् । को हेतुः ! तदाहसामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद विशेषस्मृतेश्च संशयः | २ | २।१९। 10 स्थाणुपुरुषयोरूर्ध्वतां सामान्यं पश्यन् विशेष हेतून् पाण्यादि कोटरादीनपश्यन् स्मरति च विशेषान्, अतः संशयः ' किमयं स्थाणुः स्यात् पुरुषो नैं वा' इति ।
---
स द्विविधः - बाह्य आभ्यन्तरश्चेति । बाह्योऽपि द्विविधः - प्रत्यक्षोऽपत्यक्षश्च । अप्रत्यक्ष तावत्
दृष्टमदृष्टम् | २ | २ | २० ।
प्राप्तो मनुष्य इत्युक्ते किमिमं दृष्टं पश्येयमदृष्टमिति श्रवणमात्रा देव संशयः ।
प्रत्यक्ष तु—
१९
दृष्टं च दृष्टवत् । २ । २ । २१ ।
सम्प्रति दृष्ट्वा पुरुषं तमेव दृष्टमालोचयतः किमयं मया दृष्टपूर्वः कदाचिदुतादृष्ट इति संशयः ।
Jain Education International
For Private & Personal Use Only
5
४ ( नु
१ पूर्वादीनि P. २ पादादिकोटरा 0. ३ स्थाणुः पुरुषो न वा P. वा ? ) । ५ बाह्य अभ्यन्तरश्च P. । ६ दृष्टम च मि. । उ. मध्ये तु सूत्रमिदं नास्ति । ७ मि.मध्ये नास्तीदं सूत्रम् । तुलना - " ननु च शास्त्रे तत्र तत्रोभयथा दर्शनं संशयकारणमुपदिश्यत इति । तत्र तत्र शास्त्रे तस्मिंस्तस्मिन् सूत्रे दृष्टं च दृष्टवद् दृष्ट्वा संशयो भवति । दृष्टं च मनसि क्रियावत्त्वं पुनर्दृष्टेन तुल्यं वर्तत इति दृष्टवदस्पर्शवत्त्वम् । अतो विरुद्धधर्मसाधना. 25 भिसम्बद्धं मनो दृष्ट्वा संशेते- किं मूर्तमुतामू मन इति । यथादृष्टमयथादृष्टमुभयथा दृष्टत्वात् संशय इत्यसाधारणस्य च संशयहेतुत्वमुक्तम् । यथादृष्टं पक्षे, पुनरयथा सपक्षे विपक्षे च न दृष्टम्, अत
www.jainelibrary.org
15
20