SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे । ननु क्रियामात्रं कालः । कुतः ! कोललिङ्गानाम् नित्येष्वभावादनित्येषु भावात् । २ । २ । १० । - यदि क्रियाव्यतिरिक्तः स्यान्नित्यः काल एवं नित्येष्वप्याकाशादिषु काललिङ्गानि प्रतिभासेरन् । अनित्येष्वेव तु भवन्ति । तस्मादमिनिर्वय॑मानेष्वेवावधिः कालः । तस्मात .. क्रियेव काल इति । नैतत् , वैस्तुनिवृत्युत्तरकालभावित्वात् कालिमान्यनित्येषु भवन्ति, न तु क्रियायाः कामत्वात् । तेषां तु कारणे कालाख्या । २।२।११। एषां काललिङ्गानां निर्निमित्तानामसम्भवात् क्रियानिमित्तत्वे 'कृतम्' इति स्यात् , 10 न 'युगपत् ' इति । तस्मादेषां यत् कारणं तस्मिन् कालाख्या । ___ इत इदमिति यतस्तद्दिशो लिङ्गम् । २ । २ । १२ । मूर्तद्रव्यमवधिं कृत्वा यत एतद् भवति 'इदमस्मात् पूर्वेण' इत्यादिपत्ययस्तद् दिशो लिङ्गम् । गुणाः संख्या-परिमाण-पृथक्त्व-संयोग-विभागाः । किश्च, द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २।२।१३ । अद्रव्यवत्त्वाद् वायुवद् द्रव्यत्वनित्यत्वे दिशः । तत्त्वं भावेन । २ । २ । १४ । दिग्लिङ्गाविशेषाद् विशेषलिङ्गामावाच्चैका दिगित्यर्थः । 15 सत्येकत्वे कार्यविशेषेण नामात्वम् । २ । २ । १५ । पूर्वेण देवयजनं दक्षिणेन पितृयजनमित्यादिना क्रियाविशेषेण नानात्वस्य दिशः पूर्वदक्षिणादेरुपचारः। - इतरेतराश्रयमिति चेत् , एवं तर्हि आदित्यसंयोगाद् भूतपूर्वाद भविष्यतो भूताच प्राची । २।२।१६। १ कार्यलिङ्गानां काललिङ्गानां 0.।२ अनित्येष्वेव वस्तुषु भवन्ति । तस्मादनित्यवर्तमानेष्वेवावधि: 0.। ३ वस्तुनिवृत्त्युत्तर 0. P.। ४ येषां 0.। ५ पूर्वेत्यादिप्रत्यय 0. P.। ६ “त्यसम्प्रयोगाद् 0.। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy