SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्याध्यायस्य द्वितीयमाह्निकम् । तथा औष्ण्योपलब्धिकाले अप्सु शीतता । २ । २ । ५। तेजोवयवानुपवेशात् संयुक्तसमवायादुष्णोपलब्धावपि अनुपलभ्यमानापि सलिले शीतता व्यवस्थितैवाभिभवानोपलभ्यते । - काल इदानीं कथ्यतेअपरस्मिन् परं युगपदयुगपचिरं क्षिप्रमिति काललिङ्गानि । २।२।६। एतान्यपरत्वव्यतिकरादीनि काललिझानि । तत्र परेण दिक्प्रदेशेन संयुक्ते यूनि परत्वज्ञाने जाते स्थविरे चापरेण दिक्पदेशेन संयुक्तेऽपरत्वज्ञानोत्पत्ती कृष्ण के शादिवलीपलितादिपर्यालोचनया येन निमित्तेन यूनि अपरत्वज्ञानं स्थविरे च परत्वज्ञानं जायते से कालः । तथा तुल्यकार्येषु कर्तृषु 'युगपत् कुर्वन्ति, अयुगपत् कुर्वन्ति' इति यतः प्रत्ययो 10 जायते स कालः । तथैकं क्रियाफलमुद्दिश्य ओदनाख्यं भूयसीनामधिश्रयणादिक्रियाणां प्रबन्धप्रवृत्तौ तुल्ये कर्तरि 'चिरमद्य कृतम् , क्षिप्रमद्य कृतम् ' इति यतः प्रत्ययो भवतः स काल इति । तस्य गुणाः संख्या-परिमाण-पृथक्त्व-संयोग-विभागाः । किञ्च, 15 द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २ । २ । ७ । अद्रव्यवत्त्वात् परमाणुवायोरिव द्रव्यत्वनित्यत्वे कालस्य । तत्त्वं भावेन । २।२।८। यथा सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भावस्तथा काललिकाविशेषाद् विशेषलिङ्गाभावाच्चैकः कालः । कालस्यैकत्वे कथमारम्भकालादिव्यपदेश इत्यत्राह कार्यविशेषेण नानात्वम् । २ । २।९। कार्य क्रिया, क्रियाविशेषेणाविष्ठस्य वस्तुन आरम्भ-स्थिति-विनाशक्रिया दृष्ट्या एकस्यापि कालस्य नानात्वोपचारादारम्भकालादिव्यपदेशः। १ इत्याह 0.। ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy