________________
15
द्वितीयस्याध्यायस्य द्वितीयमाह्निकम् ।
यदुक्तं ' स्पर्शवद्विशेषगुणा आरब्धे कार्यद्रव्ये गुणानारभन्ते, शब्दस्वनारब्धे द्रव्ये शब्दमारभते' इति, तदयुक्तम्, अनारब्धेऽपि पुष्पवस्त्राभ्यां द्रव्यान्तरे पुष्पगन्धस्य वस्त्रे गन्धारम्भात् तथा अप्सु उष्णतायाः । उच्यते
20
पुष्पेण खलु संयुक्त वस्त्रे न पुष्पगन्धेन गन्ध आरभ्यते, वस्त्रगन्धस्यापि सम्भवात् पुष्पवस्त्रगन्धाभ्यां द्वाभ्यां विलक्षणं गन्धान्तरमुपजनितमुपलभेमहि, न चैवम्, अपि तु पुष्पगन्धमेवोपलभामहे । तस्मात् ' अनारब्धे कार्ये पुष्पगन्धेन गन्ध आरभ्यते ' इत्य10 युक्तम्, गन्धान्तरप्रसङ्गात् ।
-----
पुष्पवयोः सति सन्निकर्षे गन्धान्तराप्रादुर्भावो वत्रे गन्धाभाव लिङ्गम् । २ । २ । १ ।
एतेनापसूष्णता व्याख्याता । २ । ३ । २ ।
अपां तेजसा संयोगे सति विलक्षण स्पर्शानुत्पतिरौष्ण्याभावस्य लिङ्गम्, अयावद्द्रव्यभावित्वं च सलिले औष्ण्यस्य । सूक्ष्माणां पुष्पावयवानां दस्त्रे तेजोवयवानां चाप्लु सङ्क्रान्तेः संयुक्तसमवायाद् गन्धस्पर्शोपलब्धिः ।
नैन्वयावद्रव्यभाविनो रूपादयो वस्त्रोदकयोः, पुष्पगन्धोष्णस्पर्शोपलम्भकाले स्वगन्धशीतस्पर्शानुपलब्धेः । नै,
व्यवस्थितः पृथिव्यां गन्धः । २ । २ । ३ ।
पार्थिवे वाससि व्यवस्थितोऽपि स्वगन्धः पुष्पगन्धाभिभवान्नोपलभ्यते ।
किञ्च,
तेजस्ष्णता । २ । २ । ४ ।
तेजस्वोष्णता व्यवस्थिता, नाप्सु संक्रामति ।
Jain Education International
१ अनारब्धकृतेऽपि P. । २ संयुक्तेन वस्त्रे पुष्पगन्धेन 0. । ३ ननु यावद्द्र । न याद्रP | ४ नP मध्ये नास्ति । ५ न्धाभिभूतो नोप 0. ।
For Private & Personal Use Only
www.jainelibrary.org