SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य प्रथममाह्निकम् । भेर्यादीनामेव निमित्तानां शब्दो गुण इति चेत्, न, कारणगुणपूर्वः कार्ये गुणो दृष्टः, कार्यान्तराप्रादुर्भावाच शब्दः स्पर्शवतामगुणः | २ | १ । २४ । इह ये स्पर्शवतां विशेषगुणा एकैकेन्द्रियग्राह्यास्ते कारणगुणैः कार्ये निष्पाद्यन्ते । न च मेर्यवयवेषु रूपादय इव कश्विच्छन्दभागः समवेत उपलभ्यते । तस्मादकारण 5 गुणपूर्वत्रान मेर्यादेः स्पर्शवतो विशेषगुणः शब्दः । यश्व स्पर्शवतो विशेषगुणः स कार्ये यावत्कार्यमुपलभ्यमानो दृष्टः । न चैत्रं शब्दः, ततो न स्पर्शवद्विशेषगुणः । किश्च, स्पर्शवद्विशेषगुण आरब्धे कार्ये कारणगुणैरारभ्यते, न च यदा शब्देन शब्द आरभ्यतें तदा किञ्चित् कार्यमुत्पन्नं पश्यामः । तस्मात् कार्यान्तराप्रादुर्भावाच्च न शब्दः स्पर्शवतो विशेषगुणइति । परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः । २।१।२५ । परत्र बहिरित्यर्थः । ये खल्वात्मगुणास्ते सुखादय इवान्तःशरीरमुपलभ्यन्ते । न चैत्रं शब्दः, बहिर्बहुभिरुपलभ्यमानत्वात् । न चात्मगुणो बाह्येन्द्रियग्राह्यः अयं तु श्रोत्रप्रत्यक्षः, तस्मान्नात्मगुणः । अत एव बहिरुपलभ्यमानत्वाद् बाह्येन्द्रियप्रत्यक्षत्वाच्च न मनोगुणः । श्रोत्रप्रत्यक्षत्वाच्च न दिक्कालयोः । तस्माद् गुणः सन् लिङ्गमाकाशस्य । २ । १ । २६ । तस्मादुपलभ्यमानः शब्द आकाशं गमयति । १५ तत्त्वं भावेन । २ । १ । २८ । यथा सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भाव एवं शब्दलिङ्गाविशेषाद् विशेष लिङ्गाभावाच्चैक माकाशम् | ॥ इति द्वितीयस्याद्यमाह्निकम् ॥ Jain Education International १ कारणे गुणपूर्वः P. । कारणगुणपूर्वक: मि. उ. । २ कार्यो गुणो O. । कार्यगुणो PS. मि. उ. । ३ परत्र प्रत्यक्षत्वाच P । परत्राप्रत्यक्षत्वाच्च 0 । ४ द्रव्यनित्यत्वे 0. द्रव्यत्वनित्यत्वे वायुना व्याख्याते | २ | १ । २७ । यथा अद्रव्यवत्त्वात् परमाणुभूतो वायुर्द्रव्यं नित्यश्च एवमाकाशं कारणद्रव्याभावाद् 20 द्रव्यं नित्यं च । For Private & Personal Use Only म 10 15 25 www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy