________________
10
द्वितीयस्याध्यायस्य प्रथममातिकम् । 'क्रियावद् गुणवत्' [१ । १ । १४ ] इति द्रव्यलक्षणाद् यत्र क्रिया गुणाश्च समवेताः सोऽपि महान् वायुर्द्रव्यम् ।
अद्रव्यवत्वेन नित्यत्वमुक्तम् । २।१ । १३ । परमाणुलक्षणस्य वायोरद्रव्यवत्वेन समवायिकारणरहितत्वेन नित्यत्वमुक्तम् ।
वायोवायुसंमूर्छनं नानात्वे लिङ्गम् । २ । १ । १४। 5 तिर्यग्गामिनो वायोर्वायुसंमूर्छनेन वायवन्तरसंश्लेषेणोर्ध्वगमनं प्रवर्तते, तत ऊर्ध्वगमनात् संश्लेषः, संश्लेषाद् वायोरनेकत्वमनुमीयते ।
ननु च
वायुरिति संति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते ।२।१ । १५।
यथा 'अयं गौः' इति गोश्चक्षुषा* सन्निकर्षे सति प्रत्यक्षेण विषाणादीनि तद्योगि तया दृष्टानि कदाचिल्लिङ्गम् , नैवं त्वचा वायोः सन्निकर्षे सति अयं वायुरिति प्रत्यक्षेण तद्गुणतया स्पर्श उपलब्धो येनानुपलभ्यमानं कदाचिद् व युमनुमापयेत् । क्षित्यादिस्पर्शविधर्मत्वादस्य स्पर्शस्य निराश्रयस्य चाभावाद् वायुराश्रय इति चेत् ,
सामान्यतो दृष्टाचाविशेषः । २।१।१६।। आकाशादीनामपि परोक्षत्वात् तत्प्रतिषेधेन वायोरेवायं स्पर्श इत्ययं विशेष एतस्मात् सामान्यतो दृष्टान्नावगम्यते । विभूनां स्पर्शवत्त्वे भावानां प्रतिघात इति चेत्, एवं तर्हि वायोरेवायं भवत्पसिद्धस्य स्पर्शो न दशमस्य द्रव्यस्येति कथं ज्ञायते !
तस्मादागमिकम् । २ । १ । १७ । तस्माद् वायुरस्तीति वाक्यमागमिकं प्रवादमात्रमित्यर्थः । नैतत्, ___ संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । २।१ । १८ ।
अस्मदादीनां सकाशाद् यो भगवान् विज्ञानादिभिर्विशिष्टो महेश्वरस्तदीयं संज्ञाप्रणयनं नवानामेव द्रव्याणां भावे लिङ्गम् , दशमस्य संज्ञानभिधानात् । तस्मान्नवैव
१ प्रवर्तेत 0.। २ वायुरिति सन्निकर्षे PS । वायुसन्निकर्ष उ.। ३ * * एतचिह्नान्तर्गतः 25 पाठः P. मध्ये नास्ति । ४ तद्योग्यतया 0. । ५ भावप्रतिघात P. I
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org