________________
चन्द्रानन्दविरचितवृत्यलङ्कृते वैशेषिकसूत्रे । __ मधूच्छिष्टं सिक्थकम् । सर्पिषो जतुनो मधूच्छिष्टस्य चाग्निसंयोगाद् द्रवता या सञ्जायते तदद्भिः समानत्वं पृथिव्याः ।
त्रपुसीसलोहरजतसुवर्णानां तेजसानामग्निसंयोगादू द्रवताऽद्भिः सामान्यम् । २ । १ । ७। 5 एषां च तेजसानां यदग्निसंयोगाद् द्रवत्वमुपजायते तदद्भिः सामान्यं तेजसः ।
'विषाणी ककुद्मान प्रान्तेवालधिः सालावानिति गोत्वे दृष्टं लिङ्गम् । २ । १।८।
दृष्टान्तार्थ सूत्रम् । 'गोत्वे ' इति गोत्वावच्छिन्ना व्यक्तिः। विषाणं ककुदं साना चास्यास्तीति विषाणी ककुद्मान् सास्त्रावान् । प्रान्तशब्देन कटिभागः, वाला अस्मिन् 10 धीयन्त इति वालधिशब्देन पुच्छम् , प्रान्ते वालघिरस्येति प्रान्तेवालविः । विषाण्यादिभिः शब्देस्तद्वत्पति दकैरपि अर्थव्यापाराद् धर्मा एव व्यपदिश्यन्ते ।
यथा अप्रत्यक्षायां गोव्यक्ती कथञ्चिद् गृह्यमाणा विषाणादयो लिङ्गं दृष्टमनुमापका
स्तथा
स्पर्शश्च । २।१।९। 15 स्पर्श उपलभ्यमानो निराश्रयस्यानुपपत्तेर्वायुमनुमापयति ।
न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः । २ । १ । १० । यदि खल्वयं क्षित्यादिस्पर्शोऽभविष्यद् गन्धरसरूपैः सहोपलभेमहि, न चैवम् , तस्मात् पृथिव्यादिव्यतिरिक्तस्य वायोलिङ्गम् ।
अंद्रव्यवत्त्वाद् द्रव्यम् । २ । १ । ११ । 20 यः परमाणुस्वभावो वायुः स खल्बद्रव्यवत्त्वात् समवायि कारणरहितत्वाद् द्रव्यम् । द्रव्यं ह्यद्रव्यमनेकद्रव्यं च ।
क्रियावत्वात् गुणवत्त्वाच्च । २।१।१२।
१ रजतताम्रसुवर्गानां 0.। २ विषाणीति ककुमान् वृषभः प्रान्तेवालधिः सानावान् गलचर्मणालङ्कत इति गोत्वं दृष्टं लिङ्गम् 0.। ३ गोत्वावच्छिन्ना जातिः 0.। ४ व्यापारधर्मा 0. । 25 ५ अद्रव्यत्वाद् द्रव्यम् .. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org