________________
चन्द्रानन्दविरचितवृत्त्यलते वैशेषिकसूत्रे । [ द्रव्यत्वं ] द्रव्यं गुणः कर्म वा स्यात् । तस्मान्न द्रव्यादीनि द्रव्यस्वम् ।
गुणे भावाद् गुणत्वमुक्तम् । १ । २ । १४ । गुणेषु गुणानामवृत्तेः, गुणत्वं च गुणेषु वर्तते, तस्मान्न गुणः।
सामान्यविशेषाभावेन च । १ । २ । १५ । 5 यदि गुणत्वं द्रव्यं कर्म वा स्यात् तस्मिन् द्रव्यत्वं कर्मत्वं वा सामान्यविशेषौ स्याताम् । न चैवम् । तस्मान्न द्रव्यं कर्म वा गुणस्वम् ।
__कर्मणि भावात् कर्मत्वमुक्तम् । १।२ । १६ । कर्मणि कर्मत्वस्य वृत्तेः कर्मणः कर्मणि चावृत्तेर्न कर्म कर्मत्वम् ।
- सामान्यविशेषाभावेन च । १ । २ । १७ । 10 द्रव्यत्वं गुणत्वं वा कर्मत्वे स्यातां यदि द्रव्यं गुणो वा स्यात् । तस्मान्न द्रव्यगुणौ
कर्मत्वम् । ... सल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भाव इति । १।२।१८।
'एक'शब्देन अभेदः कथ्यते, न तु सङ्ख्या । लिङ्गयतेऽनेनेति लिङ्गं प्रत्ययः, येन लिङ्गेन 'सत् सत्' इति प्रत्ययेन प्रतीयते सत्ता तस्य सर्वत्रा विशिष्टत्वाद् विशिष्टस्य च 15 प्रत्ययस्याभावाद भिन्ना सत्ता।
॥ प्रथमोऽध्यायः ॥
१ भावः । प्रथमोऽध्याय: PS. । २ ' इति'शब्दः प्रायः प्रत्यध्यायमध्यायपरिसमाप्तिसूत्रे 0. P. मध्ये दृश्यते, PS. उ. मि. मध्ये तु न दृश्यत इति ध्येयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org