SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रथमस्याध्यायस्य द्वितीयमाह्निकम् । सता तु सेदिति यतो द्रव्यगुणकर्मसु । १।२। ७ । भिन्नेषु द्रव्यादिषु त्रिषु यतो जायते 'सत् सत्' इति बुद्धिः सा सत्ता । आश्रयविनाशादस्या विनाश इति चेत् , न, यतः - द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता । १ । २।८। । यस्माद् द्रव्यादिभ्यो व्यतिरिक्ता सत्ता तस्मान द्रव्यादिविनाशे ससा विनश्यतीति । द्रव्यादिव्यतिरेके युक्तिः एकद्रव्यवस्वान्न द्रव्यम् । १ । २ । ९ । परमाण्वाकाशादिद्रव्यमद्रव्यं कारणद्रव्याभावात् , अनेकद्रव्यं वा घटादि समवायिकारणद्रव्ययुक्तत्वात् , सत्ता पुनः प्रत्येकं परिसम त्या वर्तमाना एकद्रव्यवत्वान्न द्रव्यम् । 10 गुणकर्मसु च भावान कर्म न गुणः । १ । २ । १० । गुणानां गुणेषुववृत्तेः कर्मसु च कर्मणाम् , गुणेषु कर्मसु च सत्ताया वर्तमानत्वान्न गुणकर्मणी सत्ता। सामान्यविशेषाभावाच । १ ।२।११। यदि सत्ता द्रव्यादीनामन्यतमा स्यात् एवं द्रव्यादिष्विव सत्तायामपि द्रव्यत्वादयः 15 सामान्यविशेषा वर्तेरन् । न चैवम् । तस्मान्न सत्ता द्रव्यगुणकर्माणि । एकद्रव्यवत्वेन द्रव्यत्वमुक्तम् । १ । २ । १२ । यथा प्रतिद्रव्यं साकल्येन वर्तमानत्वान्न द्रव्यं सत्ता तथै कद्रव्यवत्त्वान्न द्रव्यं द्रव्यत्वम् । सामान्यविशेषाभावेन च । १ । २ । १३।। द्रव्यादिष्विव द्रव्यत्यादीनां मध्यात् कश्चित् सामान्य विशेषो द्रव्यत्वे वर्तेत यदि १ " सदिति यतो द्रव्यगुगकर्मसु द्रव्यगुणकर्मभ्योऽर्थान्तरं सा सत्ता" नयचक्रवृत्ति. पृ. ६ । सदिति यतो ( सन् यतो-मि.) द्रव्यगुणकर्मसु सा सत्ता । द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता मि. उ. । २ ययात्सदिति बुद्धिः 0.। ३ न द्रव्यमेकद्रव्यवत्त्वात् PS । एकद्रव्यवृत्तित्वान्न द्रव्यम् मि. । ४ द्रव्यं सद्र्व्यमद्रव्यं 0. । ५ °द्रव्यं यदि घटादि 0 । ६ मपि द्रव्यादयः 0। °मपि सत्यत्वादयः P.। ७ द्रव्यवदुक्तम् 0.। ८ द्रव्यादि द्रव्यादिष्विव 0.। 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy