________________
प्रथमस्याध्यायस्य द्वितीयमाह्निकम् ।
कारणाभावात् कार्याभावः। १ । २।१ । कार्यकारणशब्दो पूर्वमुक्तौ तन्निरूपणार्थमाह । यस्याभावात् तन्वादेः समवायिकारणस्य तत्संयोगानां वा असमवायिकारणानां कार्यद्रव्यं न जायते पटादि विनाशे वा 5 विनश्यति तत् कारणम् , अन्यत् कार्यम् ।
न तु कार्याभावात् कारणाभावः । १ । २ । २ । न पुनः पटादेरनुत्पत्तौ द्रव्यस्य तन्तूनां तत्संयोगानां वाऽनुत्पत्तिः । उक्ता आनुषलिकाः सामान्यादयस्त्रयः पदार्थाः, तन्त्र सामान्यं कथयति
सामान्य विशेष इति बुद्ध्य पेक्षम् । १ । २ । ३ । 10 भिन्नेषु पिण्डेष्वनुवर्तमानां 'गोर्गौः' इति बुद्धिमपेक्ष्य एभ्य एव च परस्परतो
व्यावर्तमानाम् 'अयमस्मादन्यः' इति तदनुवृत्तिबुद्धयपेक्षं सामान्य व्यावृत्तिबुद्धयपेक्षो विशेष इति ।
भावः सामान्यमेव । १।२।४ । भावः सत्ता सामान्यमेव, त्रिष्वपि द्रव्यादिष्वनुवर्तमानत्वात् , न विशेषः ।
द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च । १ । २ । ५ । ___क्षित्यादिषु यतो 'द्रव्यं द्रव्यम्' इत्यनुत्तिबुद्धिः, रूपादिषु च 'गुणो गुणः' इति उत्क्षेपणादिषु 'कर्म कर्म ' इति तानि द्रव्यत्वगुणत्वकर्मत्वानि सामान्यानि, परस्परतश्च व्य वृत्तेविशेषाः ।
अन्यत्रान्त्येभ्यो विशेषेभ्यः । १ । २ । ६ । 20 नित्यद्रव्येषु परमाण्वाकाशादिषु समवायेन वर्तमानास्तुल्याकृतिगुणेषु 'अयमन्यो
ऽयमन्यः' इत्यत्यन्तव्यावृत्तिबुद्धिहेतवस्तद्दर्शिनां विशेषकत्वाद् विशेषाः । एवं विशेषा व्याख्याताः।
15
१ उक्ता अनुष P.। दृश्यतां पृ. ३ पं० २। २ दयः पदार्थाः 0.। ३ °मानानां 0.। ४ °मानाना P.। °मानना' 0.। ५ वृत्तबुद्धिः P.। ६ व्यावृत्तेश्च विशेषाः 0.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org