SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रथमस्याध्यायस्य प्रथममाह्निकम् । द्वयोव्ययोद्वित्वं सामान्य कार्यम् , त्रयाणां त्रित्वमित्यादि । तथैव द्विपृथक्त्वादि । द्वयोव्ययोः संयुज्यमानयोः संयोगो विभज्यमानयोर्विभागः । एषामनेकाश्रितत्वात् समानत्वम् । असमवायात् सामान्यं कर्म कार्य न विद्यते । १।१ । २४ । अनेकस्मिन् द्रव्ये एकस्य कर्मणः समवायनिषेधाद् न द्रव्याणां द्विबहूनां कर्म 5 समानं कार्यमस्ति । संयोगानां द्रव्यम् । १ । १। २५। द्वयोर्बहूनां वा असमवायि कारणानां संयोगानां द्रव्यं समानं कार्यम् , तन्तु. संयोगानामिव पटः । रूपाणां रूपम् ।१।१।२६ । 10 द्वयोर्बहूनां वा कारणरूपाणां कार्यद्रव्याश्रितं रूपं समानं कार्य यथा घटरूपं कपालरूपाणाम् , एवं रसादीनाम् । गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् । १ । १ । २७ । आदित्यरश्मीनामगुरुत्वात् पर्वते तथाभूतपयत्नाभावात् लोष्टस्य च हस्तेनासंयुक्तस्वादनुरक्षेपणमिति गुरुत्वादीनामुत्क्षेपणं समानं कार्यम् । संयोगविभागाः कर्मणाम् । १ । १ । २८ । उभयकर्मजा ये संयोगा विभागाश्च ते कर्मणां समानं कार्यम् । कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तमिति। १ । १ । २९ । यस्मिन् प्रकरणे द्रव्यादीनां कारणं समानं वर्णितं तस्मिन् कारणसामान्ये द्रव्यकर्मणां यतः कर्माकारणमुक्तमतस्तन्यप्यस्य कार्य सामान्यं न भवन्तीति । एवं नाना 20 द्रव्यगुणकर्माणीति सिद्धम् । 15 ॥ प्रथमस्याध्यायस्याद्यमाह्निकम् ॥ १ पणे सति गुरुत्वा 0.। २ °मुक्तम् । प्रथमस्य प्रथममाह्निकम् PS. I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy