________________
चन्द्रानन्दविरचितवृत्यलकृते वैशेषिकसूत्रे द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् । १ । १ । १७ । 'सामान्य 'शब्दः समानपर्यायः । क्षित्यादीनि त्रयाणां कारणं समानम् । आकाशादीनां केवलगुणकारणत्वेऽपि एकैकस्यानेकगुणत्वादाकाशादीनि समानं गुणेषु कारणम् , मनोऽन्त्यावयविद्रव्ये गुणकर्मणाम् ।
तथा गुणः । १।१।१८। । 'संयोगानां द्रव्यम् '[ १ । १ । २५] इति ‘अग्निसंयोगाद् गुणान्तरपादुर्भावात् ' [७ । १ । ५, ६] इति 'आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म' [५। १ । १] इति वाक्येभ्यः संयोग एव द्रव्यगुणकर्मणां समानं कारणं नान्यो गुणः । तथाहि-तूलपिण्डस्य वेगवता तूलेन संयोगात् कर्म, द्वितूलकद्रव्यम् , तत्र च परिमाणं महदुत्पद्यते. 10 ऽन्ये गुणा यथायोगम् ।
संयोगविभागानां कर्म । १ । १ । १९ । स्वाश्रयमन्यतो विभज्य आश्रयान्तरेण संयोजयति अतः संयोगविभागानां समानं कारणं कर्म ।
न द्रव्याणां व्यतिरेकात् । १ । १ । २० । ____15 यदि खलु द्रव्यस्य कारणं कर्म भवेत् तथा सति कृत्वापि संयोग न निवर्तेत, निवृत्ते तु कर्मणि केवलस्य संयोगस्योप लम्भात् मन्यामहे 'न द्रव्यकारणं कर्म'।
गुणवैधान्न कर्मणाम् । १ । १ । २१ । गुरुत्वद्वत्वनोदनाभिघातसंयुक्तसंयोगाः स्वाश्रये पराश्रये च कर्मकारणम् , प्रयत्नादृष्टौ तु पराश्रय एव । तत्र तावत् कर्म [न] स्वाश्रये कर्मकारणम् , निष्क्रिय. 20 द्रव्यानुपलब्धिप्रसङ्गात् । नापि पराश्रये, तसंयोगेनैव निवर्तितत्वात् । तस्मादेतैः कर्मकारणैर्गुणैवैधान्न कर्म कर्मकारणम् । अपरं वैधर्म्यम्
द्रव्याणां द्रव्यं कार्य सामान्यम् । १ । १ । २२ । सजातीयानां द्वयोर्बहूनां वा द्रव्याणां द्रव्यं तन्तूनामिव पटः समानं कार्यम् । द्वित्वप्रभृतयश्च सङ्ख्याः पृथक्त्वं संयोगविभागाश्च । १।१।२३। १ निवृते कर्मणि 0.।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org