SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ C - प्रथमस्थाध्यायस्य प्रथममाह्निकम् । ऽकार्यकारणभूतौ विरुध्येते, ज्ञानं संस्कारसन्तानप्रतिपक्षैः, संस्कारो ज्ञानमददुःखादिभिरिति यथासम्भवमेतद् द्रष्टव्यम् । कार्यविरोधि कर्म । १।१ । १३ । ___संयोग-विभाग-संस्काराणां कार्याणां मध्यात् संयोगेनैव कर्म विरुध्यते, न विभागसंस्काराभ्यां संयोगानुत्पत्तिप्रसङ्गात् । वैधान्तरमपिक्रियावद् गुणवत् समवायिकारणमिति द्रव्यलक्षणम् । १।१।१४ । उत्क्षेपणादिकं कर्म क्रिया यथासम्भवं यस्मिन् यत्समवायेन वर्तते तत् क्रियावत् अन्यत्राकाशकालदिगात्मभ्यः । गुणा रूपादयो यत्र यथासम्भवं वर्तन्ते तद् गुणवत् । अयुतसिद्धानामाधार्याघारभूतानाम् ‘इह' इति यतः [स] समवायः, स यस्यास्ति तत् 10 समवायि, कारणं च तदेव, समवायिनो वा कार्यस्य कारणम् । तत्र क्षित्यादीनि त्रयाणां द्रव्यगुणकर्मणां समवायिकारणम् , आकाशादीनि गुणानाम् , मनोऽन्त्यावयविद्रव्ये गुणकर्मणाम् । द्रव्याश्रयी अगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । १।१ । १५।। __द्रव्यमाश्रयतीति द्रव्याश्रयी, अगुणवान् निर्गुणः, संयोगविभागेष्वकारणमनपेक्ष इति सौंपेक्षः कारणम् । तथाहि-अमुल्योराकाशसंयोगो व्यङ्गुलाकाशसंयोगे कर्तव्ये व्यङ्गुलोत्पत्तिमपेक्षते, अङ्गुल्योः परस्परविभागो व्यङ्गुलाकाशविभागं प्रति कार्यविनाशमपेक्षते, एवं संयोगविभागलक्षण एव गुणः संयोगविभागेषु सापेक्षः कारणम् । एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षं कारणमिति कर्म-20 लक्षणम् । १ । १ । १६ ।। एकमस्य कर्मणो द्रव्यमाश्रयः, न द्वे, एकमेव वा द्रव्ये वर्तत इत्येकद्रव्यम् । नास्य गुणाः सन्तीत्यगुणम् । संयोगविभागेषु कार्येषु स्वस्याश्रयस्यान्यतो विभज्या. श्रयान्तरेण संयोजनादुत्पाद्यविनाश्यानपेक्षया संयोगविभागेष्टनपेक्षं कारण मिति । वैधान्तरमपि 15 25 १ राभ्यामनुत्पत्ति°0.।२ अत्र 'यत्' अनावश्यक भाति । ३ सापेक्षकारणम् P.४ सापेक्षकारणम् 0.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy