SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ चन्द्रानन्दविरचितवृस्थलङ्कृते पैशेषिकसूत्रे स्वात्मव्यतिरिक्त कार्यद्रव्यमारभन्ते । आकाशाद्यन्त्यावयविद्रव्याणि तु द्रव्यं नारभन्ते, तुल्य जातीयानां मूर्तिक्रियारूपादिमतां द्वयोर्बहूनां वा कारणानां कार्यारम्भकत्वात् । न चैवंविध.न्या काशादीनि । मनसोऽस्पर्शवत्वाद् द्रव्याकारणत्वमन्त्यावयविद्रव्याणां चादृष्टत्वात् । गुणाश्च गुणान्तरम् । १ । १।९। गुगौ च गुणाश्चेति पूर्ववत् । यथा तन्तुरूपादयः स्वाश्रयसमवेते पटद्रव्ये रूपादिगुणानात्मव्यतिरिक्तानारभन्ते । कर्म कर्मसाध्यं न विद्यते । १ । १ । १० । न कर्मणा कर्म जन्यते, कर्मणामुपरमदर्शनात् । करिभ्भे हि कर्मणां निष्कर्मणो 10 द्रव्यस्यानुपलम्भः स्यात् । एवं च कानिचिद् द्रव्याण्यारम्भकाणि, कानिचिन्नैव । गुणाः केचित् कारणम् , केचिन्नव । कर्माणि नैव कर्मकारणमित्येतद् वैधय॑म् । वैधान्तरमाह कार्याविरोधि द्रव्यं कारणाविरोधि च । १ । १ । ११ । विनाशो विरोधः प्रतिबन्धः, क्वचिद् व्यादिना कार्येण कारणद्रव्यं समवाय्य15 समवायि कारण भ्यां च न विरुध्यते । तथाहि-अङ्गुलिद्रव्यं कार्य व्यङ्गुलं जनयिष्यत् तदर्थेन कर्मणा तत्कृतेन संयोगेन ततो जातेन व्यङ्गुलेन न विरुध्यते नापि समवाय्य. समवायिकारणाभ्यां पर्व तत्संयोगाभ्यां वा, मनोऽन्त्यावयविद्रव्याणि गुणकर्मभिः कार्यैः, आकाशादीनि गुणैः, नित्यत्वादेषां न कारणविरोधः । उभयथा गुणः । १।१ । १२ । 20 कार्यकारणोभयानुभयैर विरोधी विरोधी च । परमाणुव्यणुकाद्यन्त्यावयविद्रव्येषु रूपादयः कार्योभय कारणैरविरोधिनो यथासम्भवम् । रूप-रस गन्ध-स्पर्शा अकार्यकारण. भूता अविरोधिनः परस्परेण । विरोधिन आद्यमध्यान्त्यशब्दाः कार्योभयकारणैः, अदृष्टः कार्येण, स्पर्शवद्राव्य संयोगेन वेगप्रयत्नौ, संयोगविभागौ सुखदुःखे इच्छाद्वेषौ परस्परतो. १ आकाशान्त्यावय 0 । २ पलम्भात् । एवं कानिचिद् P.। ३ द्रव्यादिकार्येग 0 । 25 ४ ण भ्यां न विरुध्यते 0.। ५ पूर्ववत्संयो° 0.। ६ °णुकान्त्यावय° 0 । ७ कार्योभयकारणैर्विरो धिनः 0.। कारणैरविरोधिनः P. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy