________________
प्रथमस्याध्यायस्य प्रथममालिकम् । रतान्येव पश्च कर्माणि द्रष्टव्यानि । 'गमन 'ग्रहणाद् भ्रमणरेचनादीनां प्रहणम् । एवमुद्दिष्टानि द्रव्यगुणकर्माणि । तदनुषनात् सामान्य-विशेष-समवाया अपि वक्ष्यन्ते । एवं षण्णां पदार्थानां साधर्म्यवैधर्म्यपरिज्ञानं विषयदोषदर्शनद्वारेण वैराग्योत्पत्तौ सत्यां निःश्रेयसे साध्ये धर्महेतुः। अभ्युदये साध्ये धर्महेतुत्वं पुनरमीषां ‘समे यजेत' [ ] इति पृथिव्याः, 'अधोऽम्बूनि नयति' [ ] इत्यादि । यथास्वमन्येषां द्रव्याणाम् । गुणानां तु 'कृष्णमालभेत' [
] इत्यादि। कर्मणां तु 'ब्रीहीनवहन्ति' [ ] इत्यादि ।
विज्ञातसाधर्म्यवैधाणां च द्रव्यादीनामभ्युदयनिःश्रेयसहेतुत्वात् साधर्म्य तावत् कथयति
सदनित्यं द्रव्यवत् कार्य कारणं सामान्यविशेषवदिति द्रव्य. 10 गुणकर्मणामविशेषः । १ । १ । ७ ।
‘सद् द्रव्यं सन् गुणः सत् कर्म' इति सत्ता त्रयाणामविशेषः । तथैवानित्यत्व. मन्यत्राकाशादिभ्यः । द्रव्यवदिति समवायिकारणवत्त्वमविशेषः परमाण्वाकाशादिवर्जम् । कार्यत्वमभूत्वा भवनं तथैवाविशेषोऽन्यत्र नित्यद्रव्येभ्यः। कारणत्वं कार्यजनकत्वं त्रयाणामविशेषः, क्षित्यादीनि द्रव्यगुणकर्मणां समवायि कारणम् , आकाशादीनि गुणा- 15 नाम् , मनोऽन्त्यावयविद्रव्ये गुणकर्मणाम् । गुणास्तु रूप-रस-गन्धानुष्णस्पर्श-सङ्ख्या. परिमाणकपृथक्त्व-स्नेह शब्दा असमवायिकारणम् , बुद्धि-सुख-दुःखेच्छा द्वेष प्रयत्न धर्माधर्म-भावना निमित्तकारणम्, संयोग विभागोठण्यगुरुत्व-द्रवत्व-वेगा उभयथा कारणम् । परत्वापरत्व-द्वित्व-द्विपृथक्त्व-पारिमाण्डल्यादयोऽकारणम् । कर्माणि संयोग विभागेषु असमवायिकारणम् । सामान्यानि च तानि द्रव्यत्वादीनि विशेषाश्च त इति 20 सामान्यविशेषाः, तद्वत्ता त्रयाणामविशेषः । याणामेकत्वे प्राप्ते वैधय॑मुच्यते । तथाहि
द्रव्याणि द्रव्यान्तरमारभन्ते । १ । १ । ८ । द्रव्ये च द्रव्याणि चेति विग्रहादेकमनारम्भकम् । समवायिकारणानि द्रव्याणि ...१ अपोंबूनि P.। २ नितिसा' 0.। ३ "न्यत्र हि नित्य ). । ४ त्रयाणामेकत्वप्राप्तेः साधर्म्यमुच्यते तथाहि 0.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org