________________
चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे यागदेवतापूजादिक्रियाणामाज्यपुष्पादिनिर्वा न तदैव विनष्टत्वादुत्तरकालं फल. दानाशक्तेर्यस्माद्धतोरभ्युदयनिःश्रेयसे भवतः स धर्म इति बोद्धव्यः । अभ्युदयो ब्रह्मादिलोकेष्विष्टशरीरप्राप्तिरनर्थोपरमश्च । निःश्रेयसमध्यात्मनो वैशेषिकगुणाभावरूपो मोक्षः ।
कुत एवंलक्षणो धर्मो ज्ञायत इति चेत्, आम्नायात् । तस्य प्रामाण्यं 5 कथमित्याह
तद्वचनादाम्नायप्रामाण्यम् । १ । १।३ । तदिति हिरण्यगर्भपरामर्शः, हिरण्यं रेतोऽस्येति करवा भगवान् महेश्वर एवोच्यते । आप्तेनोक्तत्वस्य सत्यताव्याप्तत्वादिहाप्तेन हिरण्यगर्भेणोक्तत्वादाम्नायस्य
प्रामाण्यं साध्यते। ईश्वरश्च साधितस्तनुभुवनादीनां कार्यतया घटादिवद् बुद्धि10 मत्कर्तृकत्वानुमानेन ।
उक्तं धर्मस्वरूपं तल्लक्षणं च । साधनान्यस्येदानी द्रव्यगुणकर्माणि वक्ष्यामः । तत्र
पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । १।१ । ४ ।
द्रव्यत्वाभिसम्बन्धाद् द्रव्याणि । *पृथिवीत्वाभिसम्बन्धात् पृथिवी । ऐवम15 बादिसंज्ञा । 'नवैव द्रव्याणि,* नाधिकानि' इत्येवमर्थम् ‘इति 'शब्दः ।
एवमुद्दिष्टानि द्रव्याणि । के पुनर्गुणा इत्याह
रूप रस गन्ध-स्पर्शाः सङ्ख्याः परिमाणानि पृथक्त्वं संयोग विभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च गुणाः । १।१।५।
एते सप्तदश कण्ठोक्ता रूपादयो गुणाः 'च'शब्दसमुचिताश्च गुरुत्व-द्रवत्वस्नेह संस्कार-धर्माधर्म-शब्दा गृह्यन्ते । एते यथावसरमुत्तरत्र वक्ष्यन्ते ।
कानि पुनः कर्माणीत्याह
उत्क्षेपणमंवक्षेपणमाकुश्चनं प्रसारणं गमनमिति कर्माणि । १।१।६।
१ लोकेषु चेष्ट 0. । २ श्रीभग 0. । ३ द्रव्याणि वक्ष्यामः P. । ४ * * एतच्चिह्नान्तर्गतः पाठः P मध्ये नास्ति । ५ एवं एवमबादिसंज्ञा 0.। ६ °मर्थ इतिशब्दः P. । ७ सङ्ख्या 0. P. सूक्ति पृ० ४७ । ८ प्रयत्नाश्च 0. उ. सूक्ति पृ० ४७ । ९ मपक्ष 0.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org