SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ अर्ह ॥ चन्द्रानन्दविरचितया प्राचीनया वृत्त्या समलङ्कतं कणादप्रणीतं वैशेषिकसूत्रम्। प्रथमस्याध्यायस्य प्रथममाह्निकम् । अथातो धर्म व्याख्यास्यामः । १।१ । १ । कस्यचिद् ब्राह्मणस्य वेदाभ्यासवशेन व्यपगतकल्मषस्येदं वेदवाक्यं प्रतिबभी "अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः" [ छान्दोग्योप० ८ । १२ । १ ] इति । तत इदं वाक्यमालोच्य कणभक्षमाजगाम । ततोऽभ्युवाच-भगवन् ! अनेन वाक्येन अपहतशरीरस्य क्षेमसाधनता कथ्यते, तदुच्यताम्-क उपाय इति । ततो मुनिरभ्यु- 5 वाच - धर्म इति । ततो जगाद ब्राह्मगः-को धर्मः, कथं लक्षणः कान्यस्य साधनानि, किम्प्रयोजनः, कांश्च प्रत्युपकरोतीति । अत एभ्यः प्रश्नेभ्योऽनन्तरं धर्मव्याख्यान. प्रतिज्ञायाम् 'अर्थ'शब्द आनन्तर्यमभिधते । अतः'शब्दोऽपि वैराग्यप्रज्ञाकथापरिपाकादिकां शिष्यगुण सम्पदं हेतुत्वेनापदिशति, यस्मादयं शिष्यो गुणसम्पदा युक्तस्ततोऽस्मै प्रश्नेभ्योऽनन्तरं धर्म व्याख्यास्यामः । को धर्म इत्याहयतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । १ । १ । २। 10 १ व्यपहत 0. । २ जनं P.। ३ न्तर्य(या?)र्थमभि O. । ४ नोपदि' P. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy