________________
[ ] इति । ” इति वैशेषिकाभिमतं दृष्टान्तलक्षणमपि दिङ्नागेनोपदर्शितम्। वैशेषिकाभिमतान्येतानि प्रतिज्ञा-हेतु-दृष्टान्तलक्षणानि सम्प्रति प्रसिद्धेषु केषुचिदपि ग्रन्थेषु नोपलभ्यन्ते । दिङ्नागेन वैशेषिकाभिमतहेत्वाभासनिरूपणे यदप्रसिद्धस्यासतश्च स्वरूपं वर्णित तदपि क्वचिदन्यत्र न दृश्यते । अत एतत्प्रतिपादकः कश्चित् प्राचीनो वैशेषिकग्रन्थ आसीदिति स्फुटमेवावगम्यते ।
जिनेन्द्रबुद्धिना प्रमाणसमुच्चयटीकायां विशालामलवत्यामनेकेषु स्थानेषु वैशेषिकग्रन्थतो ये सन्दर्भा उद्धृतास्ते सम्प्रति प्रसिद्धेषु केषुचिदपि वैशेषिकग्रन्थेषु नोपलभ्यन्ते ।
किश्चान्यत् , उद्धृतवैशेषिकसूत्रव्याख्यानावसरे वैशेषिकसूत्राणामेव काचिद् विस्तृता वृत्तिाजनेन्द्रबुद्धिनाऽनुसृता । “ तयोनिप्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानाभ्यां व्याख्याता" [ १०४ ] इति वैशेषिकसूत्रस्य यादृशी व्याख्या जिनेन्द्रबुद्धिनोपन्यस्ता तादृश्येव
चन्द्रानन्दरचितवृत्तौ संक्षेपेण दरीदृश्यते । अत उभयोरप्यवलम्बनभूता काचिदेकैव वृत्तिस्तत्र प्रतीयते। यच्च पृ० १९४ पं० १८ इत्यत्र जिनेन्द्रबुद्धिना प्रोक्तं तदपि ३।१।९' सूत्रस्य चन्द्रानन्दरचितवृत्त्यार्थतः समानमिति ध्येयम् ।। . अपि च, “ अस्येदं कार्य कारणं सम्बन्ध्येकार्थसमवायि विरोधि चेति लैङ्गिकम्" [९।१८ ] इति वैशेषिकसूत्रं यथा 'दिङ्नागेन "जिनेन्द्रबुद्धिना च व्याख्यातं प्रायस्तथैव चन्द्रानन्देनापि ३।१८ सूत्रस्य ९।१८ सूत्रस्य च 'वत्तौ व्याख्यातम् । सर्वसिद्धान्तप्रवेशकेऽपि तथैव व्याख्यातम् । यच्च चन्द्रानन्देन '९।१८' सूत्रवृत्तौ वृत्तिकारस्य वचन
१ दृश्यतां पृ. २०५ पं. ६ ॥ २ दृश्यतां पृ. १९९ ॥
३ दृश्यतामत्र सप्तमे परिशिष्टे पृ. १७५ पं. २७ [ तुलना पृ. १८८ पं. १७ ], पृ. १७६ पं. २, पृ. १९१ पं. २६.२७, पृ. १९४ पं. २८, पृ. १९५ पं. १६.२० ॥
४ पृ. १७४ पं० २४- पृ० १७५ पं० २॥ ५ पृ० ७३ पं० १.-४ । ६ अत्र पृ० १८४ पं० २०, पृ० १८६ पं० २०, पृ० १८७ पं० ८ ॥ ७ पृ० १८९ पं०३-११॥ ८ पृ. २६, ६९ ॥ ९ अत्र पञ्चमे परिशिष्टे पृ० १४५ पं० १-९॥
१. “ एवंविधप्रसिद्धसम्बन्धस्याथैकदेशमसन्दिग्धं पश्यतः शेषानुव्यवसायो यः स लिङ्गदर्शनातू सजायमानो लैङ्गिकमिति वृत्तिकारः ।"-चन्द्रानन्दर चिता वृत्तिः पृ० ६९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org