SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ मुद्धृतं तत् कथञ्चित् 'प्रशस्तपादभाष्येन कथञ्चिच पृ० १९९ पं० २६ इत्यत्र जिनेन्द्रबुद्धिनोद्धृतेन वचनेनार्थतस्तुल्यम् । अतः सर्वेऽप्येते वैशेषिकसूत्राणां कञ्चन प्राचीनं वृत्तिकारमनुसृत्यात्र प्रवृत्ता इति प्रतिभाति । प्रशस्तमतिरिति प्रशस्तपादस्य नामान्तरं सम्भाव्यते, प्रशस्तमतिना च वैशेषिकसूत्रवाक्यभाव्यटीका प्रणीतेति प्रागावेदितमेव । अतोऽयं वृत्तिकारः प्रशस्तमतिरपि भवेदिति सुधीभिर्विभावनीयम् । एवं च प्रशस्तपादो दिङ्नागात् प्राचीनः सम्भाव्यते । न च प्रशस्तपादः प्रशस्तपादभाष्ये कापि दिनागमतं निराकरोति । दिङ्नागोऽपि प्रमाणसमुच्चयवृत्ती प्रशस्तपादमतं न क्वापि साक्षात् परामृशति, केवलं द्वित्रेषु स्थानेषु दिङ्नागेन निर्दिष्टस्य पूर्वपक्षस्य काचिच्छाया प्रशस्तपादभाष्ये दृश्यत इत्यपि सुधीभिर्विभावनीयम् । पृ० १९६ पं० ११-१३ इत्यत्र जिनेन्द्रबुद्धिना निर्दिष्टमन्येषां मतं प्रशस्तपादमतेन कथञ्चित् तुल्यमित्यपि ध्येयम् । 99 विस्तरार्थिभिस्तु विलुप्तप्रायं प्राचीनं वैशेषिकमतमुद्धर्तुमस्माभिः सङ्कलितं सप्तमं परिशिष्टमेव विलोकनीयन् । जैन ग्रन्थ संग्रहात् प्राचीनसत्रपाठस्य वृत्तेश्च प्राप्तिः प्रशस्तपादविरचित पदार्थ धर्म संग्रहप्रभावाद न केवलं वैशेषिकसूत्रस्य प्राचीनव्याख्यानां विलोप एव समजनि, अपि तु प्राचीनव्याख्यानामभावाद् वैशेषिकसूत्रपाठोऽपि वैरूप्यमापन्नः । एतच्चास्माभिर्द्वितीये तृतीये च परिशिष्टे विस्तरेणोपदर्शितम् । अत एव सूत्रार्थनिर्णयोऽपि दुष्करस्तत्र तत्र सञ्जातः । अतो वैशेषिकशास्त्ररसिकानां विदुषां सौभाग्यात् प्राचीन जैन ग्रन्थभाण्डागारतः प्राचीन वैशेषिकसूत्रपाठेन सह समुपलब्धेयं चन्द्रानन्दरचिता वैशेषिकसूत्राणां प्राचीना वृत्तिर्वैशेषिकशास्त्ररसिकेभ्योऽमन्दानन्ददायिनी भविष्यतीति बाढमाशास्महे । १ " लिङ्गदर्शनात् सज्जायमानं लैङ्गिकम् ॥ “ यच्चोक्तम् - अभूत | दिप्रतीतिर्लिङ्गम् 33 -- Jain Education International " २ प्रस्तावना पृ० ८ ॥ ३ तुलना —— श्यतां पृ० १९९ टि० ९, १० । प्रशस्तपादभाष्यं पृ० ९९ । तुलना -- पृ० १८७ [ अत्र सप्तमे परिशिष्टे ] ॥ " एवं सर्वत्र देशकालाविनाभूतमितरस्य " लिङ्कम् ” —— प्रशस्तपादभाष्यं पृ० १०३ । “ अपेक्ष्य देशं कालं च तदेवाविनाभावित्वम् " इति दिवागः, पृ० १८६ पं० ९३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy