SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 10 वैशेषिकाणां लिङ्गदेवतादिस्वरूपम् । कम्बलिकाप्रावरणा जटापटलशालिनः । भस्मोद्धृलनकर्तारो नीरसाहारसेविनः ॥ ८५ ॥ दोर्मूले तुम्बकभृतः प्रायेण वनवासिनः । आतिथ्यकर्मनिरताः कन्दमूल फलाशनाः ।। ८६ ।। सस्त्रीका अथ निस्त्री का निस्त्रीकास्तेषु चोत्तमाः। पञ्चाग्निसाधनपरा बाणलिङ्गधराः करे ।। ८७ ॥ विधाय दन्तपवनं प्रक्षाल्यांहिकराननम् । स्पृशन्ति भस्मनाङ्गं त्रिस्त्रिः शिवध्यानतत्पराः ॥ ८८ ॥ यजमानो वन्दमानो वक्ति तेषां कृताञ्जलिः । ॐ नमः शिवायेत्येवं शिवाय नम इत्यसो ।। ८९ ॥ तेषां च शङ्करो देवः सृष्टिसंहारकारकः । तस्यावताराः सारा ये तेऽष्टादश तदर्चिताः ॥ ९० ॥ तेषां नामान्यथ ब्रूमो नकुलीशोऽथ कौशिकः । गाग्र्यो मैन्यः कौरुषश्च ईशानः षष्ठ उच्यते ॥ ९१ ॥ सप्तमः पारगार्यस्तु कपिलाण्ड मनुष्यको । अपरकुशिकोऽत्रिश्च पिङ्गलाक्षोऽथ पुष्पकः । ९२ ।। बृहदाचार्योऽगस्तिश्च सन्तानः षोडशः स्मृतः । राशीकरः सप्तदशो विद्यागुरुस्थापरः । ९३ ।। एतेऽष्टादश तीर्थशास्तैः सेव्यन्ते पदे पदे। पूजनं प्रणिधानं च तेषां ज्ञेयं तदागमात् ॥ ९४ ॥ अक्षपादो गुरुस्तेषां तेन ते ह्याक्षपादकाः। उत्तमा संयमावस्था प्राप्ता नग्ना भ्रमन्ति ते ॥ ९५ ।। अयमेषां विशेषस्तु यत् प्रजल्पन्ति पर्षदि ॥ १०२ ॥ शैवीं दीक्षां द्वादशाब्दी सेवित्वा योऽपि मुश्चति । दासीदासोऽपि भवति सोऽपि निर्वाणमृच्छति ।। १०३ ।। एतेषु निर्विकारा ये मीमांसां दर्शयन्ति ते । तत्र पद्यमिदं चास्ति मोक्षमार्गप्ररूपकम् ॥ १०४ ॥ १ सप्तमोऽपरगार्गिश्च' इति पाठान्तरम् । 15 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy