________________
प्रभायाम्,
अनुभूतिस्वरूपाचार्यश्च प्रकटार्थविवरणे
रावणप्रणीतं भाग्य मुल्लिखन्ति । पद्मनाभमिश्रादीनां रावणप्रणी
- अतोऽत्रोपरि निर्दिष्टं वाक्यव्याख्यानभूतं भाष्यं तत्वेनाभिप्रेतमा होस्विद् रावणप्रणीता कटन्दी टीकैव भाष्याभिधया तैर्निरदेशीति सन्देहास्पदम् । आद्यविकल्पे मुरारिमिश्रस्य वचो व्याहन्यते, अतो द्वितीयविकल्पो ज्यायानिति वयं सम्भावयामः ।
प्रशस्तपादभाष्यं तु नैवात्र वाक्यभाष्यत्वेनाभिमतमिति प्रतिपादितमस्माभिः
परिशिष्टे ।
"आत्रेयप्रणीतमप्येकं वैशेषिकसूत्राणां भाष्याभिधानं व्याख्यानं मि. वृत्ती, वादिराजेन न्यायविनिश्चयविवरणे, वादिदेवसूरिभिः स्याद्वादरत्नाकरे, राजशेखरेण षड्दर्शनसमुच्चये,' गुणरत्नसूरिभिश्च हरिभद्रसूरिप्रणीत षड्दर्शनसमुच्चयबृहद्वृत्तौ ' निरदेशि । तत्तु नयचक्रनिर्दिष्टाद् वाक्यव्याख्यानभूताद् भाष्याद् भिन्नं सम्भाव्यते । आत्रेयमतं हि किञ्चिद् विशिष्टमासीत्, अत एव तस्य आत्रेयतन्त्रत्वेनोल्लेखो राजशेखरेण कृतः प्रतिभाति । शिष्याणां मन्दोद्यमत्वात् तद् व्युच्छिन्नम् आचारव्यवहारप्रायश्चित्तेषु च ते निपुणा इत्यपि तत्र राजशेखरेणावेदितम् ।
१ पृ० ४९१ ।।
२ " पर्वतादागमं लब्ध्वा भाष्यबीजानुसारिभिः ।
स नीतो बहुशाखत्वं चन्द्राचार्यादिभिः पुनः ॥ [ वाक्यपदीयम् २।४८९ ]
"
पर्वतात् त्रिकूटैकदेशवर्तित्रिलिङ्गैकक देशादिति । तत्र ह्युपलतले रावणविरचितो मूलभूतव्याकरणागमस्तिष्ठति । केनचिच्च ब्रह्मरक्षसानीय चन्द्राचार्य वसुरातगुरुप्रभृतीनां दत्त इति । तैः खलु यथावद् व्याकरणस्य स्वरूपं तत उपलभ्य सततं च शिष्याणां व्याख्याय बहुशाखित्वं नीतो विस्तरं प्रापित इत्यनुश्रूयते । ” – इति वाक्यपदीयस्य पुण्यराजकृतायां टीकायाम् [पृ० २८५|२८६] एकस्य वैयाकरणस्यापि रावणस्योल्लेख आयातीत्यपि ध्येयम् ॥
३ पृ० १५० टि० १ ॥
४ दृश्यतामत्र Introduction p. 13. ॥
५ पृ० ३, १५, ६५ ॥
६
भाग. २ पृ० ४१३, ५०६, ५०७ ॥ न्यायविनिश्चविवरणे सामान्यतोऽप्येकं वैशेषिकसूत्रभाष्यं निर्दिष्टम् । दृश्यतां भाग १ पु० १२१ पं० २०, पृ० ५०८ पं० १०, १६, २१ ॥
७ पृ० ३३२, ४४७, ४४८, ९४५, ९४६ ॥
दृश्यतामत्रैवाष्टमे परिशिष्टे पृ० २२४, २२५ ॥
८
९ दृश्यतामत्रैव परिशिष्टे पृ० २२४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org