SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ यदा प्रशस्तपादेन पदार्थधर्मसङ्कहः प्रणीतस्तत आरभ्य तस्यैवाध्ययनाध्यापनादिषु छात्राणां विदुषां च विशेषत आदराद् वैशेषिकसूत्रव्याख्यानादीनां चोपेक्षणाद् गच्छता कालेन वैशेषिकसूत्राणि विहाय सर्वेषामपि प्राचीनवैशेषिकग्रन्थानां विलोपः सञ्जात इति प्रतिभाति । अतो वैशेषिकदर्शनस्य प्राचीनमितिवृत्तं बाहुल्येनान्धकारेणैवावृतम् । तथापि प्राचीनग्रन्थान्तरसाहाय्येन यत् किमपीतिवृत्तमुपलभ्यते तदत्रोपन्यस्यते । जैनग्रन्थानुसारेण प्राचीनं वृत्तम् - जैनाचार्यैः श्रीमल्लवादिक्षमाश्रमणैर्विरचिते सिंहमूरिगणिवादिक्षमाश्रमणसन्दृब्धया न्यायागमानुसारिण्या वृत्त्यालङ्कृते द्वादशारे नयचक्रे षष्ठे सप्तमे चारे विस्तरेण वैशेषिकमतं वार्णितम् । तत्र यावान् विशेषत ऐतिह्यविषयकोंऽशः सोऽत्रैव वैशेषिकसूत्रे षष्ठे परिशिष्टे विस्तरेणास्माभिः संगृहीत इति विस्तरार्थिभिस्तत्रैव विलोकनीयम् । तदनुसारेणेत्थं प्रतीयते-- वैशेषिकसूत्राणि वाक्यम् कटन्दी भाध्यम् प्रशस्तमतेष्टीका अन्या अपि बह्वयष्टीका आसन्नित्यपि तत एव सम्भाव्यते । . अत्रेदं विचार्यते—क एषां वाक्य-भाष्यादीनां प्रणेतारः। वैक्रमेऽष्टमे नवमे वा शतके विद्यमानो मुरारिमिश्रः 'अनर्घराघव 'नाटके रावणस्य कटन्दीपण्डितत्वमाख्याति । पद्मनाभमिश्रः किरणावलीभास्करे, गोविन्दप्रभो ब्रह्मसूत्रशाङ्करभाष्यव्याख्यायां 'रत्न १ पृ० १४६-१५२॥ २ पृ० १४७ पं० २२, पृ० १४८ पं० ९, १२, पृ० १४९ पं: ११, पृ० १५० पं० ४, ६, १७, पृ० १५१ पं० ४, पृ० १५२ पं० १, २, ६, ७, ८, ११-१६॥ ३ पृ० १५२ पं० १३ ॥ ४ एत उल्लेखा अस्माभिरत्रैव षष्ठे परिशिष्टे पृ० १५० टि० १ इत्यत्र सगृहीता इति तत्र विलोकनीयाः। दृश्यताम् Introduction p. 12. ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy