________________
वीरनिर्वाणतः ५४४ वर्षेषु व्यतीतेषु षट्पदार्थप्ररूपकत्वाद् 'उलूक' गोत्रसम्भूतत्वाच्च षड्डुलूकत्वेन प्रसिद्धो रोहगुप्तो नाम मुनिद्रव्यादीन् षट् पदार्थानुपदिष्टवांस्ततश्च त्रैराशिकदर्शनमुत्पन्नम् । स च रोहगुप्तो वैशेषिकं 'प्रणीतवानिति विशेषावश्यकभाष्यादिषु जिनभद्रगणिक्षमाश्रमणादयः ।
कणादेन प्रणीतं टीकाकृद्भिः प्रटीकाकृद्भिरन्यैश्च बहुभिर्निबन्धकृद्भिर्बहुशः पल्लवितमिदं वैशेषिकदर्शनं तत्त्वचिन्तामणिकृतो गङ्गशोपाध्यायादुत्तरोत्तरं महान्तं विस्तरं महतीं च प्रसिद्धिमापन्नं सम्प्रति दरीदृश्यते । विभिन्नानां शास्त्राणामभिप्रायाणां च प्रभावेण कालान्तरे वैशेषिकसिद्धान्तेषु भृशं परिवर्तनं प्रस्थानबाहुल्यमपि च सञ्जातम् । एतच्च जिज्ञासुभि'रन्यतोऽवगन्तव्यम् । वैशेषिकदर्शनस्य प्राचीनमितिवृत्तम्
कणादप्रणीतसूत्राणां वैशेषिकदर्शनमूलभूतत्वात् तत्र बहूनि व्याख्यानोपव्याख्यानानि प्रकरणादीनि चासन् । किन्तु सूत्रेषु वैशद्याभावादन्येषां चातिविस्तरत्वादेकदेशाभिधायित्वाद्वा इतस्ततोऽभिहितानां वैशेषिकाभिमतपदार्थानामेकत्र कात्स्न्येन सङहार्थ
१ " षट्पदार्थबहिष्कृतैः सह सम्भाषणमस्माकं गुरुमिः प्रतिषिद्धम्” इति वररुचिकृते उभयामिसारिकाख्ये नाटके [चतुर्भाणी पृ० १३१] उल्लेख उपलभ्यते । एवं चैक षटपदार्थवादिनां प्राचीनवैशेषिकाणां प्रस्थानमपरं तु सप्तपदार्थवादिना नव्यानाम् । तत्रापि बहून्यवान्तरप्रस्थानानि । तजिज्ञासुमिमिथिलाविद्यापीठप्रकाशितस्य वैशेषिकदर्शनस्य Introduction p. 16 भूमिका [पृ० २४-२५] च विलोकनीये । “अर्थ इति द्रव्यगुणकर्ममु” [८१४ ] इति वैशेषिकसूत्रं विलोक्य प्राचीनतमानां वैशेषिकाणां त्रिपदार्थवादित्वमपि केचिदैतिह्यविदः सम्भावयन्ति । द्रव्य-गुण-पर्यायवादिमिर्जेनैरपि च तस्य कञ्चन सम्बन्धं योजयन्ति । इत्थं च जैनग्रन्थेषु प्रसिद्धाया वैशेषिकशास्त्रप्रणेतुः षडुलूकस्य रोहगुप्तस्य कथाया अपि सङ्गतिं ते कथञ्चिदुपपादयन्ति ।
२ " प्रणम्य हेतुमीश्वर मुनि कणादमन्वतः। पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः ।।" इति पदार्थधर्मसङ्ग्रहाद्यश्लोकव्याख्यानावसरे “ पदार्थधर्मसङ्ग्रह इति, पदार्था द्रव्यादयः, तेषां धर्माः...... अनेन संगृह्यन्ते शास्त्रे नानास्थानेषु वितता एकत्र संकलय्य कथ्यन्त इति संग्रहः । स प्रकृष्टो वक्ष्यते प्रकरणशुद्धेः संग्रहपदेनैव दर्शितत्वात् । वैशा लघुत्वं कृत्स्नत्वं च प्रकर्षः, सूत्रेषु वैशद्याभावाद् भाव्यस्य च विस्तरत्वात् प्रकरणादीनां चैकदेशत्वात् । ...... महोदय इति महानुदय उद्गम उद्बोधो ज्ञानमिति यावत् । सोऽस्माद् भवतीति महोदयः सङ्ग्रह उक्तः ।" इत्युदयनाचार्याः किरणावल्याम् , पृ० ५ । “ पदार्थधर्माणां संक्षेपेणाभिधायको ग्रन्थः प्रकृष्टो मया वक्ष्यत इति ग्रन्थकर्तुः प्रतिज्ञा । ग्रन्थस्य चेयं प्रकृष्टता यदन्यत्र ग्रन्थे विस्तरेणेतस्ततोऽमिहितानामिहैकत्र तावतामेव पदार्थधर्माणां ग्रन्थे संक्षेपेण कथनम् । एतदेव चास्यारम्भः सत्स्वप्युपनिबन्धान्तरेषु" इति श्रीधरकृतायां न्यायकन्दल्याम् , पृ० ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org