________________
इति वायुपुराणे पूर्वखण्डे त्रयोविंशतितमेऽध्याये सप्तविंशतितमे चतुर्युगपरिवर्ते प्रभासक्षेत्र 'कणादस्य अक्षपादेन उलूकेन वत्सेन च सह स्थितिर्वर्णिता ।
" प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् । मच्छक्त्यावेशितैविप्रैः सम्प्रोक्तानि ततः परम् ॥ कणादेन तु सम्प्रोक्तं शास्त्रं वैशेषिकं महत् ।
गोतमेन तथा न्यायं सांख्यं तु कपिलेन वै ॥" । इति पद्मपुराण उत्तरखण्डे २०७ अध्याये पार्वतीं प्रति शिवेनाभिहितम् ।
" प्रणम्य हेतुमीश्वरं मुनि कणादमन्वतः
पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः ॥ [प्रशस्तपादभाष्यम् , पृ. १ ]
.........कणादमिति तस्य कापोतीं वृत्तिमनुतिष्ठतो रथ्यानिपतितांस्तण्डुलकणानादाय प्रत्यहं कृताहारनिमित्ता संज्ञा ।”—न्यायकन्दली पृ. २ । “ स्मर्यते हि यत् कणादो मुनिमहेश्वरनियोगप्रसादावधिगम्य शास्त्रं प्रणीतवान् । "-किरणावली पृ. ४ ।
“ योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् । चक्रे वैशेषिकं शास्त्रं तस्मै कणभुजे नमः ॥” इति प्रशस्तपादभाष्यान्ते ।
काश्यप इत्यपि कणादस्यैव नामान्तरमतः कणादम्य दर्शनं काश्यपीयं दर्शनमप्यभिधीयते । विशेषाभ्युपगन्तृत्वादेतदेव वैशेषिकमप्युच्यते ।
कणादस्यैव उलूक इति नामान्तर मिति प्रसिद्धिः । अतोऽस्य संगतिश्चिन्तनीया। दृश्यतामत्रैव पृ. २२०. Introduction. p. 9।
२ " यदनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गम नुमापकम् ॥ विपरीतमतो यत् स्यादेकेन द्वितयेन वा।
विरुद्धासिद्धसन्दिग्धमलिशं काश्यपोऽब्रवीत् ॥ [प्र. भा. पृ० १०० ] ......अलिङ्गं सामान्यतो लिङ्गाभासं काश्यपात्मजः कणादोऽब्रवीत् ।"--किरणावली पृ. २९१ ॥ प्रकरणपञ्चिकायां "तदाह भगवान् काश्यपः संख्या परिमाणानि पृथक्त्वं संयोगविभागो परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाच्चाक्षुषाणि" [पृ० ७९ ] इति शाबरभाष्यस्य प्रभाकरेण कृताया बृहत्या व्याख्यानभूतायाम् ऋजुविमलायां च " तदाह भगवान् काश्यपः-- कारणाज्ञानात् कार्याज्ञानम् , कार्याज्ञानात् कारणाज्ञानम्" [पृ. २११ ] इति वैशेषिकसूत्राणि [तुलना-४।१।१२१, ३.११४,५] शालिकनाथेन काश्यपनाम्नोद्धतानि । अत्र Introduction p. 2 इत्यत्रापि अनन्तलालदेवशर्ममिः संगृहीताः काश्यपस्योल्लेखा द्रष्टव्याः ॥
३ विशेषशब्देन किं ग्राह्यमित्यत्र ये विभिन्ना अभिप्रायास्तेषां संग्रहोऽत्र अनन्तलालदेवशर्ममिः Introduction pp. 2, 3 इत्यत्र कृत इति जिज्ञासुभिस्तत्रैव विलोकनीयम् । दृश्यताम् Introduction pp. 6-9॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org