________________
२१८ सवृत्तिके सटीके च प्रमाणसमुच्चये नैयायिकानुमानपरीक्षा ।
प्रतिपन्नं तथैवोत्तरकालं लिङ्गदर्शनादपि तत्र ज्ञानमुपजायते, तस्मात् तत् पूर्ववद् भवति । शेषेण प्रत्यक्षेण तुल्यं शेषवद् वस्तु, तद्विषयं ज्ञानमपि शेषवत् । यथा एकं फलं रसद्वारेण प्रत्यक्षीकृत्य शेषाण्यपीदृग्रसानि प्रत्यक्षरस तुल्यत्वात् तद्वदित्यनुमानम्... | अथवा पूर्वं कारणं तदस्मिन्नप्यस्तीति पूर्ववत् कार्यम्, तद्विषयं ज्ञानमपि पूर्ववद् यत् कारणात् 5 कार्यानुमानम् । शेषं कार्यं तदस्मिन्नस्तीति शेषवत् कारणम्, तद्विषयं ज्ञानमपि शेषवद् यत् कार्यात् कारणानुमानम् । सामान्यतोदृष्टं यदन्य सादृश्यादन्यस्यात्यन्तपरोक्षभूतस्य कर्मणो ज्ञानम् । यथा चैत्रस्य गतिपूर्विका देशान्तरप्राप्तिमुपलभ्य तत्तुल्यत्वेनादित्यस्यापि गतिपूर्विका अस्ताचलप्राप्तिरनुमीयते । विस्तरेण निर्देशादेव त्रिविधत्वसिद्धौ त्रिविधमिति वचनं पूर्ववदनुमानस्यैकस्य त्रिकालविषयत्वेन त्रिविधत्वज्ञापनार्थम् । तत्र नदीपूराद् 10 वृष्टिरित्यतीतेऽनुमानम् । पिपीलिकाण्डसञ्चाराद् भविष्यति वृष्टिरित्यनागते के कायितादयं मयूर इति वर्तमाने । अत्र मतुपा पूर्ववत्त्वं न सम्भवतीति योज्यम् । सम्बन्धो नेन्द्रियग्राह्य इति भूतगुणवत् सम्बन्धिभ्यो भेदेनाप्रतिभासनादित्याशयः । न च सर्वत्रेति... | नेत्रः सर्वत्र सम्भवादीति .... । सम्बन्धान्तरेण चेदमिति सम्बन्धान्तरं सम्बन्धविशेषोऽविनाभावः, तत्सामर्थ्येन पूर्ववदर्थः प्रतीयते, तन्निर्देशाभावादनुमानमनिर्दिष्टमेव ।
1
"
नन्वयं मतुब अस्तु, यथोक्तदोषश्च न भवति, न हि सर्वमनुमानं कारणात् कार्यविषयम् । सम्बन्धश्चात्र निर्दिष्ट एव कार्यकारणभावस्य प्रदर्शितत्वादिति चेत्, तत आह-न मतुब् व्यभिचारित्वादिति ....। 'शेषवत्यपीव इत्यादिनात्रापि तमनन्तरोक्तमेव दोषमाह । न ह्यवश्यमित्यादि । तुल्यरूपादीनां तुल्यरसोत्पत्तेर्नियोगोऽयं नास्ति । एतावत्तु स्यात्-तापाण्येतत्तुल्यकारणान्येतादृमसानीति स्यात् न तु तुल्यरूपमात्रा20 दनुमानं व्यभिचारात् । मतुपा चेदव्युत्पत्तौ 'नेत्यादि । अव्युत्पत्तिरगतिः । किमिति चेत्, यतः कार्यात् कारणानुमानमिदं कार्यत्वस्य तस्मात् कार्यरूपेणैवाप्रतीती लिङ्गस्यानुमेये कारणेऽविनाभावित्वग्रहणात् प्रतीतिर्न स्यात् सा च दृष्टा | ........ एवं कृतकादिभिरिति मतुप्पक्षे व्यापकत्वमाह । कृतकत्वादीनामनित्यत्वादिभिः कार्यकारणभावो नास्तीति । ... • पूर्ववत्यपीति पूर्ववदित्यत्र इवपक्षे विषाणादिलिङ्गेन गवा25 द्यर्थानुमाने समवायसम्बन्धः । गवाद्यर्थानुमानं न स्यात् । तच्च दृष्टम् । ......... धूमादग्न्यनुमाने संयोगसम्बन्धः । तस्य चाग्रइणे प्रतीतिर्न स्यात् । सा च दृष्टा ।........ मतुप्प्रत्यपक्षेत्रादीनां वृष्ट्या दिभिः सह कार्यकारणभावसम्बन्धः । शेषवत्य व रक्षे रूपस्य
....
15
१ ' व्यभिचाराद् मतुब् नास्ति इत्यपि भवेत् पाठः । दृश्यतां पृ० २१६ टि० २ ।। २ दृश्यतां पृ० २१५ टि० २ । ३ न स्यादित्यादि VT | दृश्यतां पृ० २१५ टि० ४ ।।
Jain Education International
3
For Private & Personal Use Only
www.jainelibrary.org