________________
त
10
अथ पूर्तिः ।
सवृत्तिके प्रमाणसमुच्चये प्रथमे प्रत्यक्षपरिच्छेदे नैयायिकप्रत्यक्षपरीक्षा । इन्द्रियार्थोद्भवे नास्ति व्यपदेश्यादिसम्भवः । सान्तरग्रहणं न स्यात् प्राप्तौ ज्ञानेऽधिकस्य च ॥ १७॥ 5 अधिष्ठानाद् बहिर्नाक्षं न शक्तिर्विषयेक्षणे । न सुखादि प्रमेयं वा मनो वास्तीन्द्रियान्तरम् ॥ १८ ॥ अनिषेधादुपात्तं चेदन्येन्द्रियरुतं वृथा । निश्चितेऽर्थे फलाभावो विशेषणे न भेदतः ॥ १९ ॥ तत्रापि नोभयं तत् किं न विशेष्येऽपि सज्यते ।
अज्ञानादि न सर्वत्र निवृत्ति सती फलम् ॥ २० ॥ नैयायिकानाम् " इन्द्रियार्थ पनि कर्पोत्पन्नं ज्ञानमव्यपदेश्यमव्यभि वारि व्यवसायात्मकं प्रत्यक्षम्" [न्यायमू० १।१।४] इति । अत्र च विशेषणानि न युज्यन्ते ।
इन्द्रियार्थोद्भवे नास्ति व्यपदेश्यादिसम्भवः । ___15 विशेषणं व्यभिचारसम्भवविषये क्रियते । न चास्तीन्द्रियबुद्धौ व्यपदेश्य. विषयत्वे सम्भवः, अनुमानविषयत्वाद् व्यपदेश्यस्य । अव्यपदेश्यत्वेऽपि न व्यभिचारः, इन्द्रियबुद्धिय॑ पदेष्टुं न शक्यते । ततो विशेषणं न कर्तव्यम् ।
१ वैशेषिकप्रत्यक्षपरीक्षायां दिङ्गागेन पृ. १७०.५० ७ इत्यत्र पृ० १७३ पं० १६ इत्यय च नैयायिकप्रत्यक्षपरीक्षा निर्दिष्टा । एवं पृ० १८४ पं० १८ इत्यत्र नैयायि कानुमानपरीक्षा निर्दिष्टा। 20 अत्रोऽत्रोपयोगित्वाद् नैयायिकप्रत्यक्षपरीक्षा नैयायिकानुमानपरीक्षा चात्र क्रमेणोपन्यस्यते ॥ २ इतः प्राक्तन्यः षोडश कारिकाः स्ववृत्त्या विशालामलबत्या च सह भोटभाषान्तरतः संस्कृतेऽस्माभिरनूदिता द्वादशारस्य नयचक्रस्य प्रथमे विभागे टिप्पणेषु भोटपरिशिष्टे मुद्रिता इति जिज्ञासुभिस्तत्रैव विलोकनीयाः पृ० ९७-११८ ॥ ३ उद्धृतमेतत् प्रमागवार्तिकालङ्कारे पृ० ३३८ ॥ ४ अत्रापि (१)॥ ५ व्यभिचारसम्भवसद्भावे K॥ ६ इन्द्रियबुद्धिः स्वर्वा [ व्यपदेष्टुं ? ] न शक्यते K॥ ७ 25 विशेषणवचनं PSV ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org