________________
२०८ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकदृष्टान्तपरीक्षा। यत्र प्रसिद्धवावित्यर्थे घटादौ । वाक्यावयवत्वं न युज्यत इति । यथोक्तम् - " सह विवक्षा हि भेदे सति अभेदे वृत्तानां भवति" [ ] इति । अर्थशब्दयोश्चा. भेदे वृत्तत्वं नास्ति । अन्वयानभिधानादित्यादि यथास्माकं हेतोरविनामावित्वमुदाहरणेन प्रदश्यते नैवं वैशेषिकाणाम् । ततश्च दृष्टान्ताभासः पूर्ववदिति, यथा पूर्वमुक्तं 5 " विपरीतान्वयो द्वेधा तदाभासोऽप्यनन्ययः" [प्र. समु० ४ । १२ ] इति
एवमत्रापि वक्तव्यम् । उभयथापि न युज्यत इति यदि हेतुप्रतिज्ञे उभयवचनेन गृह्येते यदि च तदर्थौ । साधनत्वोपमार्थों च स्वतन्त्रत्वे निरर्थकाविति । साध्यससिद्धयर्थ. मर्थ्यत इत्यर्थः साध्यसाधनसमर्थ स्वरूपमुच्यते । नास्त्यर्थोऽनयोरित्यनर्थको साध्य
साधनसमर्थस्वरूपौ न सम्भवत इत्यर्थः । इममेवाथ वृत्त्या प्रकाशयति-साधनत्वं 10 न सम्भवति उपमार्थश्व नास्तीति । युक्तिस्तु कस्यचित् साधनत्वं न सम्भवति साधन
सामर्थ्यरहितत्वात् । उपमार्थः कथम् ! यादृशः परेण साध्यानुहोऽभिमतस्तादृशो न सम्भवतीत्याशयः । यथापूर्वोक्तवदिति
" उदाहरण साधय केवलं तैरुदीर्यते ।
___ साध्यसाधनता नोक्ता तथा चौपम्यमात्रता ।।" [प्र० समु० ४ । ८] इति । 15 एवं साधनत्वाभाव उक्तः । दृष्टान्ताभावोऽपि
सहेतोः साध्यमात्रस्य तद्विशेषस्य वा मितौ ।
दृष्टान्तस्यानवस्था स्याद् व्यावृत्तिश्च विपक्षतः ॥ [ प्र० समु० ४ । १० ] इति चतुर्थः परिच्छेदः। -VT. D. ed. पृ० २३६b-२३७b P. ed. पृ. २६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org