________________
२१० सवृत्तिके सटीके च प्रमाणसमुच्चये नैयायिकप्रत्यक्षपरीक्षा । व्यभिचारिविषयत्वेऽपि न, मनोभ्रान्तिविषयत्वाद् व्यभिचारिणः । व्यवसायो निश्चयः । सोऽकल्पिते सामान्यादिमति गवादावदर्शनान्न सम्भवति । अथाऽ. यथार्थादिज्ञानव्यावृत्यर्थमुच्यते तथापि विशेषणं न युक्तम् , अव्यभिचारादपि । सर्वा हीन्द्रियबुद्धिः स्वार्थमात्रग्राहिणी। एतेन उक्तविकल्पोऽपि प्रत्याख्यातो 5 यदुक्तं 'व्यवसायात्मकं ज्ञानं व्यवसायफलम्' इति । न हि साक्षादयथार्थादिज्ञानफलत्वमिन्द्रियबुद्धौ सम्भवति ।
अथाप्यव्यपदेश्यलादिवचनं तस्य ज्ञानस्य स्वरूपप्रदर्शनायेति चेत् , [तद् v] न, प्रत्यक्षलक्षणस्याभिधेयत्वात् अस्य चेन्द्रियार्थसन्निकर्षेणैव सिद्धेः ।
ज्ञानस्वरूपस्य प्रदर्यत्वे च गुणत्व-द्रव्यानारम्भकत्व निषिक्रियत्वाऽऽकाशाद्य 10 विषयत्वस्यापि प्रदर्यत्वादतिप्रसङ्गः ।
सर्वत्रापि सन्निकर्षोत्पन्नप्रत्यक्षेष्टौ रूपशब्दयोः सान्तरग्रहणं न स्यात् प्राप्तौ ज्ञानेऽधिकस्य च । न हीन्द्रियनिरन्तरे विषये गन्धादौ सौन्तरवद् ग्रहणं दृष्टम् । नेन्द्रियाधिकग्रहणं युक्तम् ।
बहिर्वर्तित्वादुपपद्यत एव । इन्द्रियद्वयस्याधिष्ठानाद् बहितिः, ततस्तद्विषये 15 उपपन्नं सान्तराधिकग्रहणमिति चेत् , तदप्ययुक्तम् , यस्माद् अधिष्ठानाद
१ उद्धृतमेतत् प्रमाणवार्तिकालङ्कारे पृ. २५३, ३३८ ॥ २ * एतत्पर्यन्ताय : प्रमाणसमुच्चयवृत्तेविशालामलवती टीका जिज्ञासुभिनयचक्रस्य प्रथमे विभागे टिप्पणेषु भोटपरिशिष्टे विलोकनीया पृ० ११८-११९ ॥ ३ उक्त विकल्पेऽपि प्रत्याख्यातम् PSV । (भाष्यविकल्पोऽपि प्रत्याख्यातः ?) ।।
४ प्रदर्यत्वेऽपि (?) ॥ ५ °काशादिज्ञेयाविषयत्वस्यापि V ॥ ६ “ यथोक्तं दिङ्नागेन--सान्तर. 20 ग्रहणं न स्यात् प्राप्तौ ज्ञानेऽधिकस्य च । बहिर्वतित्वादिन्द्रियस्योपपन्नं सान्तरग्रहगमिति चेत् , अत
उक्तम्-अधिष्ठानाद् बहिन क्षम् , किन्तु अधिष्ठानदेश एवेन्द्रियम् । कुतः ? तच्चिकित्सादियोगतः । सत्यपि च बहिर्भावे न शक्तिर्विषयेक्षणे । यदि च स्यात् तदा पश्येदप्युन्मील्य निमीलनात् । यदि च स्यात् , उन्मील्य निमोलितनयनोऽपि रूपं पश्येत् , उन्मीलनादस्ति
बहिरिन्द्रियमिति ।" -न्यायवार्तिकतात्पर्यटीका. १।१।४॥ ७ " किञ्च, यदि प्राप्यकारि 25 चक्षुः स्यात् सान्तराधिकग्रहणं न प्राप्नोति । न हीन्द्रियनिरन्तरे विषये गन्धादो सान्तरग्रहणं
दृष्टम् , नाप्यधिकग्रहणम् । अथ मतं बहिरधिष्ठानाद् वृत्तिरिन्द्रियस्य, अत उपपन्नं सान्तराधिकग्रहगमिति, तदयुक्तम् , यस्माद् न वहिरधिष्ठानादिन्द्रियम् , तत्र चिकित्सा देदर्शनात् , अन्यथाधिष्ठानपिधानेऽपि ग्रहणप्रसङ्गः।"-तत्त्वार्थराजवार्तिक. १ । १९ ॥ ८ बर दङ् ब्चस्° प° यिन्
प शिन् दु ऽजिन् पं म्थोङ् मेद्' क्यि । बङ् पो ल्हग्° पर ऽजिन् प नि रिगस्' 30 प म यिन् नो PSV ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org