________________
२०१
सप्तम परिशिष्टम् । नोक्तः । एवं विरुद्धानकान्तिकोऽनेको नोक्तः यथा किं पृथिव्यादिभिः संहतस्य शरीरस्यारम्भ आहोस्वित् स्वस्वजातीयारम्भ इति संशयः पञ्चानां लिङ्गोपलब्धे. विजातीयारम्भनिषेधाच्च । एतेन संशयसूत्र वैकल्य मेपि उक्तम् । अत्र च सामान्यप्रत्यक्षत्वेऽपि कुन्दशौक्लयाद् रूपत्व-गुणत्वाऽऽश्रितत्व-निर्गुणत्वादिषु निश्चयो दृष्टः, न संशयः, तस्मादव्यवच्छेदहेतुः सामान्यं तत् प्रत्यक्षत्वे संशयकारणमिति 5 नोक्तम् , तस्माद् न्यूनत्वम् । यदि च अंसतो हेतुरसन् सन्देहस्य हेतुः सन्दिग्धः [ तथापि ] यः साध्येऽसन् सन्दिग्धश्च स नोक्तः, तथा चात्यन्तं न्यूनोक्तिः-यथाऽनित्यत्वे साध्ये शब्दे चाक्षुषत्वमनपदेशः, धूमादित्वेनाग्न्यादौ साध्ये केचिदेशे सन्देहः । एवं वैशेषिकाणा हेत्वाभासो दुर्विहितः । सप्रतिरूपो हेतुरुक्तः।
10 [ इति ] प्रमाणसमुच्चये तृतीयः परार्थानुमान परिच्छेदः ।
विशालामलवती टीका । तद्वद्धर्मस्य हेतुरिति । तदस्मिन्नस्तीति तद्वान् , तद्वतो धर्मस्तद्वद्धर्मः । सम्बन्धित्वमात्रस्य हेतुत्रे प्रसक्ते तद्व्यच्छेदायाह-अभिधानमिति वर्तन इति । ' साध्याभिधानं प्रतिज्ञा' इति प्रकृतम् । ततोऽयं वाक्यार्थः-तद्वद्धर्माभिधानं हेतुरिति । यदि साध्या- 15 भिधानं सम्बध्यते इति तस्य प्रधानत्वात् तेन च साध्यमेव तद्वदिति सम्बन्धिशब्दवादभिधानाभिधेयमेव तेन तद्वद् भवति । तथाहि-पुत्रवानित्युक्ते पितैव तद्वान् भवति । नन्वा काशमपि तेन तद्वद् भवति तस्य तत्समवायित्वादिति चेत् , सत्यम् , तथापि
१ एवं विरुद्ध कान्तिक एवाने को यथा...K॥ २ सम्भूय शरीरस्यारम्भ उच्यते आहोस्वित् स्वस्वजातीयस्येति संशयः V ॥ ३ अत्र K मध्ये 'लुस् पडि'-इति पाठः, किन्तु 'ऽदुस् पडि' 20 इति पाठोऽत्र शुद्धो भाति ॥ ४ वैकल्यम् (2) इत्युक्तम् V॥ ५ मपि पुनरुक्तम् K ॥ ६ कुन्दशौक्लयरूपत्वगुणत्वा...K । उत्पलशौक्लयाद् गुणत्वा ...V॥ ७ " अव्यवच्छेदहेतोरिति वक्तव्यम् । यदिदं समानधर्मोपपत्तेरिति पदमेतस्मिन्नव्यवच्छेदहेतोः समानस्य धर्मस्योपपत्तेरिति वक्तव्यम् । न हि केवला समानधर्मोपपत्तिः संशयकारणं भवति अन्यथा कृतकत्वादिनापि संशयः स्यात् , समानं कृतकं सर्वानित्यानामिति । व्यवच्छेदहेतुत्वान्न भवति । "-न्यायवार्तिक १।१ । २३ ॥ ८ तत्प्रत्यक्षत्वे 25 संशय इति नोच्यते V॥ ९ 'अभावस्य' इत्यपि पाठः स्यादत्र ॥ १० एवं न्यूनोक्तिः V॥ ११ 'यथानित्यत्वसाधने' इति । यथानित्यत्वसिद्धौ' इति वा पाठोऽपि स्यादन ॥ १२ धूमादित्वेनाग्नौ साध्ये K। धूमादित्वेनाग्न्यादिसाधने VI VT अनुसारेग 'धूमादित्वस्य'इति पाठः ग्रतीयते ॥ १३ क्वविद्देशेऽर्थे संशयः K॥१४ हेत्वाभासोऽपि सदोष उक्तः । परार्थानुमाननिरूपणम् । तृतीयः परिच्छेदः K॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org