________________
·
सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकहेत्वाभास परीक्षा । व्यावृत्त्यसम्भवात् सर्वाभासस्य [संशयस्य V] हेतुरसाधारणत्वादन्य एव रुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः [ न्याय० सू० १ । १ । २३ ] ।...अनेकधर्मोपपत्तेरिति । समानजातीयमसमानजातीयं चानेकम् । तस्यानेकस्य धर्मोपपत्तेः-विशेषस्योभयथा दृष्टत्वात् । समानजातीयेभ्यो ऽसमानजातीयेभ्यश्चार्था विशिष्यन्ते गन्धवत्त्वात् पृथिवी अबादिभ्यो 5 विशिष्यते गुगकर्मभ्यश्च । अस्ति च शब्दे विभागजन्यत्वं विशेषः । तस्मिन् द्रव्यं गुणः कर्म वेति सन्देहः विशेषस्योभयथा त्वात् किं द्रव्यस्य सतो विशेष आहोस्त्रिद् गुणस्य सत इति अथ कर्मणः सत इति । " - न्यायभाष्य. १ । १ । २३ । " अनेकधर्मोपपत्तेः संशय इति । अनेकस्यानेकश्च धर्म इति केचित् । अनेकस्य धर्मोऽनेकधर्मः । अनेकस्य द्रव्यगुणकर्मलक्षणस्य संयोगजत्वं धर्मः, अनेकश्च धर्मः संयोग जत्व निर्गु त्वक्षणिकत्वानि शब्दे । तदेवमनेकधर्मोपपत्तेः संशय इति केचित् । तदयुक्तम्, समान10 धर्मोपपत्तेरित्यनेनैव चरितार्थत्वात् । ... अथानेकधर्मशब्दस्य कोऽर्थः ? असाधरण धर्म इति । कथं पुनरसाधारण धर्मोऽनेकधर्म इत्यनेन समासपदेनाभिधीयते ? समानासमानजातीय विशेषकत्वात् । समानजातीयमसमानजातीयं चानेकम् तस्माद्विशेत्रो विशेषो धर्मः । अनेकस्माद्विशेषोऽनेकधर्मः, तस्य वानेकस्य धर्मों यथास्त्रं सोऽयमनेकधर्म इति । यथा शब्दस्य विभागजत्वं सामान्यविशेषसमवायेभ्य शब्दस्य सदादिना विशेषेण निर्भक्तस्य । तस्मिन् द्रव्यं कर्म गुग इति विभागजत्वात् संशयः । न हि 15 द्रव्यगुणकर्मणामन्यतमं विभागाज्जायमानं दृढम् । सर्वत्रासम्भवाद् विभागजत्वं संशयं करोति सर्वतो व्यावृतेरिति । ... तदेवं विभागजत्वं विभागजविभागासमवायिकारणत्वं वा नर्ते शब्दात् सम्भवतीति सर्वतो व्यावृतेः संशयहेतुः । तुल्यजातीयेष्वर्थान्तरभूतेषु च विशेषस्योभयथा दृष्टत्वादिति । - " न्यायवार्तिक. १ । १ । २३ । यतोऽनेकस्मात् समानासमानजातीयादेव स्वाश्रयं व्यावर्तयति अतोऽनेकापादान कव्यावृत्तिहेतुत्वालक्ष गयाऽनेक इत्युच्यते ।... समानजातीय मसमान जातीयं चानेकम् तस्य धर्मो निवर्तकतया ।...... स्यादेतत्- यद्येन सहचरितं दृधुं तत् क्वचिद्दृश्यमानं तत् स्मारयत् तद्विरुद्धेनापि सम्बन्धादनिश्चाययत् संशयहेतुर्भवति यथा समानो धर्मः । असाधारणस्तु धर्मो विभागजलं न ऋते शब्दात् क्वचित् पृथिव्यादौ वा उत्क्षेपादौ गन्धादौ वा दृष्ट इति कथं स्मारयेत्, अस्मारयन् कथं संशयं जनयेत् इत्यत आह-विभागजत्वं संशयं करोति सर्वतो व्यावृत्तेरिति । अयमर्थः यद्यपि विभागजत्वं न द्रव्यादौ कचिद् दृष्टम्, तथापि तद्व्यतिरेकः प्रत्येकं द्रव्यादौ दृष्ट इति विभागजत्वेन सदाद्यविशेषवान् शब्दो द्रव्य कर्मभ्यां व्यावर्तमानः किं गुगः, गुगकर्मभ्यां व्यावर्तमानः किं द्रव्यम्, गुणद्रव्याभ्यां व्यावर्तमानः किं कर्म ? इति व्यतिरेकमुखेग तत् तत् स्मारयन् असाधारणो धर्मो भवति संशयकारणमिति । ...... ननु सहचरितो दृटः स्मारयन् विशेषः संशयहेतुर्भवति न तु यो व्यावृत्तः तेनासाहचर्यादिति शङ्कामपनेतुं भाष्यकारीयमुत्तरमाह — तुल्यजातीयेष्विति । यद्यपि व्यतिरेकमुखेगासाधारणः शक्तः स्मारयितुं तथापि भाष्योक्तमप्युक्तम् । यत् खलु सदादिरूपसम्पन्नं विशेषवत् तत् समानजातीयेभ्योऽसमानजातीये*यश्च व्यावृतं यथा पृथिवी द्रव्यमवादिभ्यो द्रव्यान्तरेभ्यो गुगकर्तभ्यश्च विजातीयेभ्यो गन्धवत्त्वेन व्यावृत्तं द्रव्यजातीयम् एवं रूपत्वेन रूपं गुणः, उत्क्षेपगत्वेतत्क्षेपणं कर्म । तथाविधः शब्दः सदादिरूपसम्पन्नो विभागजत्वेन समानासमानजातीयेभ्यो विशिष्यते तस्माद् द्रव्यं गुणः कर्म वेति संशय इति । ... ..... ... असाधारणो हि धर्मो व्यतिरेकमुखेग संशयहेतुः । स चानेकस्माद्वयावृत्त्या सिध्यति । ... अनेकस्माद्वातोऽनेकधर्म इति विग्रहेण निर्वर्ण्यत इति । ” न्यायवार्तिकतात्पर्यटीका. 35 १ । १ । २३ ॥ १२ स्तत्संशय उपपद्यते K || १३ तस्मात् सर्वथा ( सर्वत्र ? ) संशयहेतुरन्योsसाधारण एव नोक्तः VI
"
25
30
20
२००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org