________________
सप्तमं परिशिष्टम् ।
अभावो वा विरुध्येत विपरीतं न्यूनाभिधा ॥ ६३३ ॥ वैशेषिकाणां त्रिविधो हेत्वाभास:- "अप्रसिद्धोऽनपदेशः, असन् सन्दिग्धश्व" [ वै० सू० ३ । १ । १०, ११] इति । अप्रसिद्धस्तावद् न हेत्वाभासः, किं तर्हि ? दृष्टान्तस्य अभावो वा अप्रसिद्धार्थत्वं वा त्वर्थेन । 'वा' शब्दो विकल्पार्थः । एवं हि स दृष्टान्तेऽप्रसिद्धः । अथापि साध्य एवाप्रसिद्ध उच्यते 5 तथा सति हेत्वर्थो विरुध्येत* ' प्रसिद्धिपूर्वकत्वादपदेशस्य ' [ बै० सू० ३ । १ | ११ ] इत्यत्र सम्बन्धकाले प्रसिद्ध इत्युच्यते ।
असन्नपि नासन् । सन्दिग्धोऽपि न सन्दिग्धः । विषाणित्वं हि *प्रसिद्धत्वात् * प्रसिद्धं कृत्वा तत्रोदाहियते - यदि विषाणी तस्मादवो विषाणी [तस्माद् ] गौरिति च [ वै० सू० ३ । १ । १२ ] । अथापि असतो हेतुरसन् सन्देहस्य हेतुः सन्दिग्ध इति चेत् असतस्तावत्र हेतुरसन्मात्रस्याप्रतीतेः । न हि 10 तत्राश्वाभावमात्रं ज्ञायते, किं तर्हि ? विपरीतम्, अनश्वज्ञानं तत्र गौरित्यर्थे, नाभावज्ञानम् । तस्मादयं विपरीत साधनां विरुद्धः ।
>
१९९
सन्देहहेतोश्च सन्दिग्धाभिधाने न्यूनाभिया । 'विषाणित्वाद् गौः' इत्य यमेव न सन्देहहेतुः, किं तर्हि ? अपाधारणोऽपि यथा षट्सु पदार्थेषु श्रावणत्वम् तद्धि सर्वत्राभावाद् अनेक विषय संशयहेतुः । ये आहुः - विशेष उभयत्र 15 दृष्टत्वादत्वादिवत् सामान्यमेवेति, तदयुक्तम्, न हि यतो व्यावृत्तिस्तदाभासः संशय उपपद्यते मा भूदेकद्रव्यवच्चात् पृथिव्यादिषु संशय इति । तस्मादयं सर्वतो
>
१ अभावो वा प्रसिद्धत्वात् PS2 || २' न्यूनं वचः' इत्यपि पाठोऽत्र स्यात् ॥ ३ तथा सति प्रसिद्धिपूर्वकत्वादपदेशस्य हेत्वर्थो विरुध्येत । अत्र सम्बन्धकाले प्रसिद्ध उच्यते K ॥ ४ * * अयं PS 1 अनुसारेण कारिकांशः ॥ ५ प्रसिद्धत्वाद् विषाणित्वमत्रोदाह्रियते K ।। ६ * * 20 अयं PS2 अनुसारेग कारिकांशः ॥ ७' अभावस्य ' इत्यपि पाठोऽत्र स्यात्र ॥ ८ तत्र विषाणित्वादनश्वज्ञानं जायते, न तज्ज्ञानम्, तस्मादयं विपर्ययसाधनाद् विरुद्ध एव V ॥ ९ तुलना - " यो ह्यनुमेयेऽविद्यमानोऽपि तत्समानजातीये सर्वस्मिन् नास्ति तद्विपरीते चास्ति स विपरीत साधनाद् विरुद्धः यथा यस्माद्विषाणी तस्मादव इति । " - प्रशस्तपादभाष्य पृ० ११७ || १० अनेकविषये संशयकारणम् K | ११ ननु चायं विशेषः संशयहेतुरभिहितः शास्त्रे - तुल्यजातीयेष्वर्थान्तर- 25 भूतेषु विशेषस्योभयथा दृष्टत्वात् [ वै० सू० २ । २ । २६ ] इति । न, अन्यार्थत्वात् । शब्दे विशेषदर्शनात् संशयानुत्पत्तिरित्युक्ते नायं द्रव्यादीनामन्यतमस्य विशेषः स्याच्छ्रावणत्वम्, किन्तु सामान्यमेव सम्पद्यते । कस्मात् ? तुल्यजातीयेष्वर्थान्तरभूतेषु द्रव्यादिभेदानामेकैकशो विशेषस्योभयथा दृष्टखादित्युक्तम्, न संशयकारणम्, अन्यथा षट्स्वपि पदार्थेषु संशयप्रसङ्गात् । तस्मात् सामान्यप्रत्ययादेव संशयः । " -- प्रशस्तपादभाष्य. पृ० १२०-१२१ । " समानानेकधर्मोपपत्तेर्विप्रतिपत्ते - 30
C:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org