________________
१९६ सवृत्ति सटीके च प्रमाणसमुच्चये वैशेषिकानुमानपरीक्षा |
अन्यतमदिति एकमपीत्यर्थः । ननु कार्यस्वं सदकारणत्वं चैकार्थसमवायित्वान्तर्भूतम् एक शब्द कार्यत्वानित्यत्वयोः आत्मादौ च नित्यत्वसदकारणत्वयोः समवाया. दिति चेत्, नैतदस्ति, एकार्थसमवायि हि कार्य कार्यान्तरस्य कारणं कारणान्तरस्येत्युक्तम्, अत्र च कार्य कारणभावासम्भवः । व्यङ्ग्यव्यञ्जकताया इति, अनित्यत्वं 5 व्यङ्ग्यत्वात् कार्यम्, कार्यत्वं तु व्यञ्जकत्वात् कारणमिति । एवमन्यत्रापि वेदितव्यम् । शेषमव्यञ्जकं प्राप्तमिति, अन्यथा भेदेन निर्देश एव न स्यात् स चास्ति । ततो व्यङ्ग्यव्यञ्जकत्वेनात्र कार्यकारणत्वमभिप्रेतमिति नावगन्तव्यम् ।
"
अन्यतस्तद्भतेर्वृथेति, वृथा निष्प्रयोजनम्, अन्यत इत्यविनाभावात्, अविना भावित्वेन धूमादिलिङ्गादनुमेयमधिगम्य ' अस्येदं व्यञ्जकम् ' इति मनसा कल्प्यते 10 ततो व्यर्थमेतदनुमानकारणं कल्प्यत इति शेषः । अथवा प्रतिपाद्यत इति प्रकृतमत्रापि सम्बध्यते परेण निष्प्रयोजनमेवैतदनुमानकारणं प्रतिपाद्यत इत्यर्थः । अन्ये पुनरेवं वदन्ति - अविनाभाव एव सम्बन्धोऽनुमानस्य कारणं शास्त्रेऽत्र निर्दिश्यते, अनुमानभेदप्रदर्शनार्थं तु कार्यकारणभावादिसम्बन्ध उपात्तः, ततश्च सर्वदोषाभाव इति । तदयुक्तम्, कारणस्य लिङ्गत्वेन निर्देशात् तंत्र चाविनाभावाभावात् सम्भवानुमानस्य च 15 पराभिप्रायेणासम्भवादिति ! -VT.D.ed. पृ० ११०२-११७b | P.ed. पू० १२४२-१३३b॥
१ तुलना - " शास्त्रे कार्यादिग्रहणं निदर्शनार्थं कृतं नावधारणार्थम् । कस्मात् ? व्यतिरेकदर्शनात् । तद्यथा अध्वर्युरों श्रावयन् व्यवहितस्य हेतुर्लिङ्गम् ; चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च, शरदि जलप्रसादोऽगस्त्योदयस्येत्येवमादि । तत् सर्वम् ' अस्येदम्' इति सम्बन्धमात्रवचनात् सिद्धम् प्रशस्तपादभाष्य. पृ० १०४ ॥ २ दृश्यतां पृ० १९० पं० १-८ ॥
Jain Education International
For Private & Personal Use Only
1
""
www.jainelibrary.org