SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ सप्तमं परिशिष्टम् । 9 ] इति । इतिकारनिर्देशादिति, ' त्वादुभयमप्यनुमानम् " [ • विरोधि च इति सूत्रान्ते इतिकारपाठात् अस्येदं कार्यम्' इत्यादि यज्ज्ञानं तदितिना करोति प्रकाशयति । यद्येवं लिङ्गज्ञानस्य लैङ्गिकत्वेऽनवगतविशेषस्यापि लिङ्गदर्शनमात्रादधिगतिः स्यादित्यत आह--- सम्बन्धस्मरणापेक्षयेति, सम्बन्धस्मरणापेक्षत्वं तस्य ' प्रसिद्धि • पूर्वकत्वादपदेशस्य [वै० सू० ३ । १ । ९ ] इत्यतो लभ्यते । 6 १९५ " कारणी कृत्येति, लिङ्गशब्दोऽयं कारणपर्यायः धातूनामनेकार्थत्वात् लिङ्ग्यते जन्यते कार्यमनेनेति व्युत्पत्तेः । लिङ्गप्रतीतिश्चानुमेयप्रतीतेः कारणं भवति, ततो यदुक्तम् असम्बन्धान्न लिङ्गधीर्लिङ्गम् ' इति अस्य सिद्धसाध्यत्वं कारककारणस्य कारणत्वेन विवक्षितत्वादिति चेत् तदपि नेत्यादिना निराकरोति । अनुमेयलक्षण भूतस्येति ज्ञापकभूतस्येत्यर्थः, अनुमेयं लक्ष्यते ज्ञाप्यते [ ऽनेन ] इति कृत्वा । अन्यथेति यदि जन- 10 कस्यापि लिङ्गस्याधिकार आत्मेन्द्रिय मनोर्थसन्निकर्षोऽपि वाच्यः, तेऽप्यनुमेयज्ञानस्य कारणानीति । न तूच्यते । तस्मादत्र जनकस्य नाधिकार इति । स्यादेतत्- अनुमेयज्ञानं प्रति लिङ्गज्ञानस्य साक्षात् कारणत्वं नान्यस्य । ततः साक्षात् कारणत्वाल्लिङ्गज्ञानमेवोच्यते इति चेत्, आह-न साक्षादित्यादि । कथं नेत्याह-सम्बन्धस्मरणेन व्यवहितत्वा दिति । सम्बन्धस्मरणं सिद्धमिति, अस्माद् वचनात् सम्बन्धस्मरणं सिद्धं न तु सम्ब- 15 न्धिधूमादिप्रतीतिः तथाहि मध्यात् " यस्य धूमादीनामन्यादिभिः सम्बन्धः सिद्धः " [ ] इत्यादि । इत्युक्तमित्यस्मिन्नर्थे ज्ञापकमाह । यतस्तत्रैवोक्तम् – " प्रसिद्धि - पूर्वक एवापदेश इति कथं प्रतीयत इति चेत्, उच्यते - अर्थान्तरभावे सति यस्मादप्रसिद्धोऽनपदेशः । कथम् ! यस्य धूमादीनामग्न्यादिभिः सह सम्बन्धोऽप्रसिद्धस्तं प्रति धूमादयोऽनपदेशः " [ ] इति । तस्माल्लिङ्गज्ञानस्य लैङ्गिकत्वे एतदज्ञापकम् | 20 Jain Education International सूत्रे कार्याद्यभाषितमिति शास्त्रे 'कार्यस्वात् कारणतो विकारात् "संयोगाद् विभागाच्छब्दाच्च शब्दनिष्पत्तेः शब्दोऽनित्यः' इति कार्यत्वादयः शब्दानित्यत्वे हेतव उक्ताः । एवं ' संदकारणवन्नित्यम् ' इति नित्यत्वसाधनाय सदकारणवत्त्वमुक्तम् । ते च कार्यत्वादयो लिङ्गत्वेन नाख्याता इति वैकल्यं लक्षणस्य । तत्र स्यादेतत् - तेषामपि कार्यत्वादीनामन्तर्भाव इति चेत्, आइ - एतेषामित्यादि एतेषामनित्यत्वादिलिङ्गानाम् 25 १ ब्शद्° ऽग्रेल्° लस् VT. | भाष्ये ( ? ) ॥ २ इत्यादिना D. ed. ॥ ३ वै० सू० २ । २ । ३२ ॥ ४ ० सू० २ । २ । ३४ । ५ वै० सू० २ । २ । ३६ ॥ ६ वै० सू० ४।१।१॥ 5 For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy