________________
१९४
सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकानुमानपरीक्षा |
अर्थान्तरत्वे च स एव दोषः ' यद् विरोधि न तलिङ्गम्' इत्यनुत्तरमेतत् । एवमन्यत्रापि वक्तव्यमिति, यत्र भूतं लिङ्गं तत्रापि वा संयोगाभावस्य वर्ष कर्माभावेन विरोधात्, अत्र च वर्षकर्माभावो न लिङ्गम्, किं तर्हि ? वर्ष कर्म, वर्ष कर्म वा संयोगाभावयोश्च न विरोधः । एवं ' भूतं भूतस्य ' इत्यत्रापि द्रवत्वकर्मणः स्यन्दनस्य सेतुबन्धेत विरोधः, 5 स्यन्दनं च न लिङ्गम् किं तर्हि तदभावः । एवम् ' अभूतमभूनस्य' इत्यत्रापि श्यामताग्निसंयोगयोर्विरोव:, अत्र च न तयोर्लिङ्गलिङ्गिभावः, किं तर्हि ? तन्निवृत्त्योः ।
यच्चोक्तमिति “ सदनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः " [ वै० सू० १ । १ । ७ ] इति वचनाच्छास्त्रे द्रव्यगुणकर्मणामेव कारणभाव उक्तः, अत्र च ' अभूतं भूतस्य ' इत्यादिनाऽभाव कारणवचनात् कथमभावो 10 भावस्य लिङ्गमिति पृच्छति । अभावो भावस्य लिङ्गमस्माभिर्नोच्यते, किं तर्हि ? अभूतादिप्रतीतिः । कुत इति चेत्, प्रसिद्धिपूर्वकत्वादपदेशस्य [वै० सू० ३ । १ । ८] इति । यस्य 'धूमोऽग्नेः संयोगी ' इति पूर्वं सम्बन्धप्रहणकाले प्रसिद्धं भवति तस्यैव धूमदर्शनादग्नावनुमानं नेतरस्य । ततो धूमादिप्रतीतिरेव लिङ्गम् तद्विषये तु लिङ्गत्वमुपचर्यते यथा चन्दनस्य तुलेति । असम्बन्धान्न लिङ्गधीरिति यो येन सहासम् बद्धः 15 स तस्य न लिङ्गम्, यथा घटः पटस्य, लिङ्ग्यपि लिङ्गधियाऽसम्बद्ध इति व्यापकानुपलब्धिमाह । सम्बन्धार्थं चेत्यादि, आत्मनि प्रसिद्धमित्यु के परेणोक्तम् - आत्मनि प्रसिद्धं न लिङ्गम्, अन्यत्वात् अर्थान्तरेणार्थान्तरस्याप्रतिपादनात् अतिप्रसङ्गात् । तत इदं सूत्रमुपन्यस्तम् । एवमुकं भवति सर्वमर्यान्तरस्य न लिङ्गम्, किं तर्हि ? यदेव कारणकार्यादिसम्बन्धानामन्यतरेण सम्बद्धं तदेवापदेश इति ।
"
"
1
"
20
लैङ्गिकत्वेन निर्देशादिति, लैङ्गिकमिति वचनादस्मिन् सूत्रे लिङ्गज्ञानं लैङ्गिकरवेन निर्दिश्यते, ततस्तस्य लिङ्गस्वपतिज्ञानेऽभ्युपगमवावा । अथानुमेयज्ञानमत्र लैङ्गिकत्वेन निर्देष्टुमभिपेतं न लिङ्गज्ञानमिति चेत्, आइ – अनुमेयज्ञानस्येत्यादि । यदि लिङ्गज्ञानं लैङ्गिकमिष्यते तनुमेयज्ञानमत्र विफलं स्यात् । अनुमेयज्ञानस्य लैङ्गिकत्वे तु तदुत्पत्तौ सोऽर्थः प्रतीत इति फलाभावः, ततः सैवाभ्युपगमवाधा । स्यादेतत्-लिङ्गज्ञानं 25 लिङ्गम्, सम्बन्धस्मरणं लैङ्गिकम्, अनुमेयाधिपतिः फलमित्यत अह - स्मरणमात्र इत्यादि । यदि सम्बन्धस्मरणं प्रमाणं तथा सति येन लिङ्गमदृष्टं तस्यापि धूमसम्बन्ध - स्मरणादग्निप्रतीतिः तः स्यात् ' मात्र 'शब्दो धूमदर्शननिरासाय । तेन सहितं सम्बन्धस्मरणं त्वनुमानमिष्यत एव । यदाह -" तदिदं च साक्षात् परम्परया चानुमिति कारण
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org