________________
. सप्तमं परिशिष्टम् ।।
१९१ नग्नावकारणं न युज्यते । स्यादेतत्-संयोगस्य कश्चिदाश्रयो व्यभिचारी यस्तत्र व्यभिचरति कश्चिदव्यभिचारी यो न व्यभिचरति । तत्र योऽस्याश्रयोऽव्यभिचारी स एव लिङ्गमिष्यते, नापरः, ततः संयोगो गृहीत इत्येव नानुमानस्य कारणम् , किं तर्हि ! यदाऽयमस्याश्रयो व्यभिचारी अयं त्वव्यभिचारीत्येवमपि व्यभिचार्यव्यभिचार्याश्रयत्वेन विचारणापूर्वकं गृह्यते तत्रैवाव्यभिचारिण्याश्रये गमकत्वं गृह्यते । ततस्तेनैवाव्यभिचारिणाs. 5 नुमीयते इति यथोक्तदोषोऽनास्पद इत्याह-नेत्यादि । संयोगस्य सकृदसकृद्वा ग्राह्यत्वे न कश्चिदात्मातिशय आधीयते येनासकृद् ग्राह्यः स संयोगोऽनुमानस्य कारणं भवेत् । यदि च स गृहीतोऽपि पुनर्व्यभिचार्यव्यभिचार्याश्रयत्वेन ग्रहणमपेक्षते तथा सत्यन्य एवाविनाभावसम्बन्धोऽभ्युपगतः, न संयोगः । ततस्तदभ्युपगमे युगपदेव ग्रहणं प्रमाणीकर्तव्यम् । ततश्चास्य व्यभिचार्यव्यभिचारित्वेन विचारणा कुत इति । यस्याविनाभावित्वं 10 सम्बन्धस्तस्याप्ययं दोषः कुतो न भवतीत्याह-यस्य वित्यादि । अवश्यववनं कृतकत्वनाशित्वादावविनाभावित्वस्याप्युभयत्र वृत्तेः । न च केनचिदंशेनेत्यादि । अग्नेय धूमसंयोगि रूपं तद्भूमगम्यम् , अग्न्यादिरूपवत् , दीप्त्यादिरूपमपि तथा; एवं धूमस्य यदग्निसंयोगि रूपं तदग्नेर्गमकम् , धूमत्वादिरूपवत् , द्रव्यादिरूपमपि तथेति स्वभावप्रसङ्गद्वयमाह। दीप्यादिश्रुत्या चात्र तद्वदग्निरूपमेवोच्ते, न गुण-सामान्ये, तयोः संयोगित्वासम्भवात् । 15 - यथा चेत्यादि यथोक्तदोषं सम्बन्धान्तरेऽप्यतिदिश्य दर्शयति। विरोधिषु सम्भवादिति सम्भववचनेन भूत एव विरोधिन्ययं प्रसङ्गो नामते तत्र सामान्यविशेषयोरनुपपत्तेरिति दर्शयति । लिङ्गस्येत्यादि, लिङ्गस्य धूमादेर्यदन्येन सामान्यं द्रव्यत्वादिरूपं ये च दीयादयो विशेषाः त उभयेऽपि प्रकाशकप्रकाश्या न भवन्ति । अत्र च व्यवहितसम्बन्धो द्रष्टव्यः-लिङ्गस्यान्येन सामान्यं लिङ्गिनश्च विशेषा प्रकाशकप्रकाशा नेति । छन्दोनुरोधात् तथा पाठः । अन्यत्र वैशेषिकादीनां दर्शने सर्वथा प्रसङ्गः प्रकाशकस्य प्रकाश्यस्य च, संयोगादिसम्बन्धस्याविशिष्टत्वादिति । संयोगिमात्रप्रतीतिप्रसङ्ग इति संयोग्याकारणानुमेयग्रहणं स्यादित्यर्थः । कुत एतदित्याह-अन्यथेत्यादि । सम्बन्धानुरूप्येण लिङ्गेन लिङ्गी गम्यते । ततः संयोगवशेन लिनेन प्रतिगदितः संयोगिरूपेण गृहीतस्तेनैव रूपेण प्रतीयते, संयोगित्वस्य संयोग्यन्तरापेक्षत्वात् । तथा चोक्तम्-" यदास्येदं संयोगि प्रसिद्धमसन्दिग्धं च भवति ततोऽस्य सम्बन्धिप्रहणादगृहीतेऽपि सम्बन्धिन्यनुव्यवसायो भवति " [ ] इति । स्यादेतत्-अग्नि
१ चिम् चर्° खो° न° VT.। सकृदेव (?) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org