________________
१९२ सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकानुमानपरीक्षा । रूपेणैव संयोगि, ततस्तद्रूपेणापि प्रतीयते, यच्च 'ततोऽस्य' इत्याधुक्तं तत्र ' सम्ब. न्धिनि' इत्यनेन विशेष एवं परामृश्यते, न संयोग्यवयविरूपमात्रमिति चेत्, आहअत्र च नेत्यादि । अथवा शङ्कामकृत्वा पूर्वपक्षे दोषान्तरमेवानेनाह । यदि धूमेन संयोमिनाग्निसत्ता साध्यते, अग्निधूमसंयोगोऽनुमानाङ्गं स्यात् , न चेयं साध्यते, कुत 5 इत्याह-तस्याः प्रतीतत्वादिति । किं तर्हि साध्यमित्याह-पत्रेत्यादि । कुत इति
चेत् , ' अत्रायम् ' इति वचनाद् अत्र 'शब्देनाऽत्र देश आश्रयत्वेन प्रतीयते । नन्वाश्रयः सामान्यम् ' अत्र' इति वचनेन साध्यते, ततस्तत्र विशेषप्रतीतिः कुत इत्याहअन्यथेत्यादि । एतेन 'विशेषा[दर्थान्तरस्वासम्भवं द्योतयति । यत्र 'अत्र' इत्यस्य
पदस्यार्थान्तरासम्भवस्तत्र प्रवृत्त्याश्रयो विवक्ष्यते, यथायं कूप इति वाक्ये, ' अत्राग्निः' 10 इत्यत्रापि · अत्र' इति पदमसम्भवदर्थान्तरम् इति कार्यम् । ननु विशेषणासिद्धिः,
धूमस्यैव ' अत्र' इत्यनेन विवक्षितत्वादिति चेत्, आह-धूमेऽग्निरित्यादि, प्रतिज्ञार्थंकदेशत्वं साध्यधर्मिण एव हेतुत्वेनाभिधानात् । ननु विशेषे प्रतिजैकदेशे सामान्यं हेतुः, ततः कुतोऽयं दोष इति चेत् , अयमाशयः-अग्निधूमयोः संयोगसम्बन्धाभिलाषिणा हेतुरपि
विशेषलक्षणात्मक एवाभ्युपगन्तव्यः, न सामान्यम् , अन्यथा द्रव्ययोरेव परस्परं संयोगो 15 न सम्भवेत् । यतोऽयं शास्त्रेऽपीष्टः ततः प्रतिज्ञार्थंकदेशो हेतुः स्यात् । अत्राप्येतद्
वक्तव्यमेव-' अत्र चाग्निसत्ता न साध्यते तस्याः प्रतीतत्वात् ' इत्यादि । तस्योत्तरस्य वाच्यत्वे के यथोक्तदोषान मुक्तिः । अत्र धूमविशेषेऽप्यग्नौ साध्ये स दोषस्तदवस्थ एव । तस्मादनुत्तरमेतत् । यद्येवं द्रव्ययोरेव परस्परं संयोग इति सिद्धान्तः नन्वेवम.
ग्निरपि विशेष एव स्वलक्षणपर्यायः साध्यत्वेनाभ्युपगन्तव्यः, ततश्च साध्यसाधनयोः 20 स्वलक्षणात्मकत्वात् सर्वो हेतुरसाधारणः स्यात् , दृष्टान्तश्च साध्यसाधनविकल इति चेत्,
सत्यमेतत् , तत आह-तस्माल्लिङ्गलिङ्गिनोनावश्यं संयोग इति अत्र 'अभ्युपगन्तव्यः' इति गम्यते । यस्मात् संयोगसम्बन्धे इदृशो दोषस्तस्मालिनलिङ्गिनी संयोगसम्बन्धिनौ नैवाभ्युपगन्तव्यौ । अअश्यवचनेनावधारणं दर्शयति । किं तहिँ ? अविनामाविस्वमेवेति
तंत्र दोषाभावात् । ननु च तदपि सदोषमेव, अव्यापकत्वात् । यतस्तत् सर्वदा लिङ्गे 28 न भवति, तथाहि-अग्निशून्यदेशकालयोरपि कदाचिद्भूम उपलभ्यत इति चेत् , आह - अपेक्षते देशकालावित्यादि । यावति प्रदेशे धूमोऽग्न्यभावे न दृष्टस्तदपेक्षयाऽविना
१ न चात्र साध्यते D. ed. ॥ २ विशेषणस्यार्थान्तरत्वा...(?) ॥ ३ कार्यहेतुः ॥ ४ गङ् ल° D. ed. ग” दङ् P. ed. । क्वापि (?) ॥ ५ तत्र निर्दोषत्वात् (?) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org