________________
१९० सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकानुमानपरीक्षा। चारादित्युक्तम् । स्यादेतत् - कारण सामग्र्या कार्य सम्भवोऽनुमीयत इति । अयुक्तमेतत, प्रत्यक्षस्य निश्चयात्मकत्वाभ्युपगमात् कारणं जनकमेव अभाविपतिबन्धम् अहोत्विदजनकमेवावश्यंभाविप्रतिबन्धम् ? आद्यविकरुपे तत् तस्य रूपं प्रत्यक्षेण निश्चितमिति ततो विशिष्ट कार्योत्पत्त्यनुमानमेव भवेत् , न च भवति, कथं कारणात् कार्य परिच्छिद्य 5 तदर्थे प्रवर्तमानस्य विसंवादो दृश्यते ! द्वितीयपक्षे तु 'कारणमेव तन्न भवति' इति निश्चये सति ततः कार्योत्पत्त्यनुमानं कुतः ! न हि 'अग्निः शीतस्याकारणम् ' इति निश्चये सति केनचिदग्निना शैत्यसमुत्पत्तिरनुमीयत इति । एवं परमतेन कारण कार्येऽनुमानस्य न हेतू । . न संयोगोऽगतौ सिद्धेरिति यदग्रहेऽपि यत्रानुमानं तत् सदनुमानस्य न कारणम् , 10 यथाग्निर्जलस्य, अग्निधूमसंयोगाग्रहेऽप्यग्न्यनुमानं भवति इति व्यापकविरोधः । कथं
पुनस्तदगतावपि सिद्धिरिति चेत् , आह-दृष्टवादित्यादि । संयोगस्य द्विष्ठत्वाद् द्वित्ववत् सर्वाश्रयदर्शनपूर्वकमेव ग्रहणं भवति, अनुमानकाले च सर्वाश्रयादर्शनात् संयोगग्रहणासम्भव एव, अथाप्यविनामावित्वस्मरणाद् धूमेनामिरनुमीयते । स्यादेतत्-अयमज्ञात
एवानुमानस्य हेतुर्भविष्यतीत्याह-ज्ञानकारणत्वेनैव चेत्यादि । स्वविषयज्ञानकारण15 त्वेनेत्यर्थः । यतः सर्वं ज्ञापकं स्वविषयं ज्ञानमुत्पादयत् ज्ञेयार्थ ज्ञापयति प्रदीपवत् ,
अन्यथाऽगृहीतादपि धूमादग्नौ प्रतिपत्तिः स्यात् । संयोगश्वे(स्ये १ )त्यादि, यः संयोगस्याधारः स द्वितीये प्रतियोगिनि प्रति पत्तेहेतुः, यथा धूमः, अग्निरपि तथेति स्वभाव प्रसङ्गमाह । स्यादेतत्-इष्यत एवैतदित्याह-दृष्ट इत्यादि । ननु धूमोऽप्यवस्थ विशेषा. दिषु अग्निविनाभूतो दृष्ट एव, ततोऽनयोः को विशेषो येनै कत्राभिव्यञ्जकत्वप्रसङ्गश्वोद्यते 20 नेतरत्र ? अयमाशयः-यद्यपि धूमस्य संयोगित्वमिदानीन्तनं नास्ति तथापि भूतपूर्वम.
स्त्येव, निमितवतां निमिताव्यभिवारात् , उत्पद्यमान एव धूमोऽग्निसंयोगी, अग्निस्तस्य निमित्तम् , अवश्यं च निमित्तानि निमित्तवति न वर्तन्ते । तस्मात् तदवस्थायां क्वचिदपि भूतपूर्वस्यापि संयोगित्वस्यासम्भव इति । एवं यस्मादग्निः कदाचिद्भूमस्यं निमित्तं
कदाचिच्च न तस्माद् व्यभिचारित्वात् तस्य धूमं प्रति नाभिव्यञ्जकत्वम् । संयोगस्यानु. 25 मानकारणत्वेष्टौ तु तत् प्राप्नोतीति चोद्यते । आवादादित्यादि । सन्दिग्धश्रुत्या
अनैकान्ति कत्वमाह सन्दिग्धत्वात् । कथं पुनः संयोगित्वस्य तुल्यत्वेऽग्नेरनै कान्तिकत्वं कथं च न धूमस्येति चेत् , आह-न हि सोऽवश्यमित्यादि । अभेदत इति, संयोगो हि प्राप्तिः, तस्यां च भेदो नास्ति । ततश्च यथै कस्य प्राप्तिस्तथा द्वितीयस्यापीत्येकस्मि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org