________________
सप्तमं परिशिष्टम् ।
१८९ दिवाकरकिरणदर्शनाद् घटाभिव्यक्ती, तन्तून प्रस्तारितांस्तन्तुवायाधिष्ठितांश्च दृष्ट्वा भाबिपटे । एवं यदाऽस्येदं प्रसिद्धमसन्दिग्धं च भवति व्यङ्ग्यस्य निष्पाद्यस्य वा कार्यस्येदं कारणमिति ततोऽस्य कार्यदर्शनादित्यादि यथायोगं वाच्यम् । सम्बन्धि द्विविधम्-संयोगि यथा धूमोऽग्नेः, समवायि यथा विषाणं गोः। एकार्थसमवाय्यपि द्विविधम्-कार्य कार्यान्तरस्य कारणं कारणान्तरस्य । तत्र कारणस्य एकार्थसमवाय एकार्थानां समवायः, 5 कार्यस्य च एकार्थेषु समवाय इति विग्रहभेदात् । तत्र कार्यात् कार्यान्तरेऽनुमानं यथा रूपात् स्पर्शे, कारणात् कारणान्तरे यथा पादाद् हस्तयोः । विरोधि चतुर्विधम्अभूतं भूतस्य, यथाऽभूतं वर्षकर्म भूतस्य वाय्वभ्रसंयोगस्य, तस्मिन् सति वर्षकर्मणोऽभावात् । भूतमभूतस्य, तदेव विद्यमानं वर्षकर्म तस्यैव वायवभ्रसंयोगस्य । अतिवृत्त. त्वमप्रवृत्तत्वं च प्रतिपादयति । भूतं भूतस्य द्रवत्वं सेतुबन्धस्य, द्रवस्वकार्येण स्यन्दनेन 10 विरोधाद् द्रवत्वेन विरोधं दर्शयति । अमृतमभूतस्य अभिनिवृत्तायाः श्यामताया घटे पाकजरूपोत्पत्तावभिनिवृत्तो घटाग्निसंयोगः । ___ कारण कार्येऽनुमानस्य न हेतू इत्युक्त मिति पराभिमते इत्याशयः । ननु जन्य. जनकलक्षणे तत्र कार्यकारणे निषिद्धे न व्यङ्ग्यव्यञ्जकलक्षणे इति चेत् , नैष दोषः, व्यायव्यञ्जकभावो हि जन्यजनकभाव एव । तथाहि-सहकारिणोऽभिव्यञ्जकादुपादा. 15 ना(नो)पेक्षाज्ञानजननयोग्यक्षणान्तरोत्पत्तिरेव घटाद्यभिव्यक्तिः, अन्यथा तत्कृतोपकारनिरपेक्षज्ञानोत्पत्तिप्रसङ्गात् । परो हि मोहादुत्पत्तिरहितामेव नीरूपां घटाघभिव्यक्तिं मन्यते। तत्स्वरूपं च नियमेन न प्रतीयते । ज्ञानजननसामर्थ्यमभिव्यक्तिरिति चेत् , तथा सति दुग्धघटायेवाभिव्यञ्ज केन क्रियत इति प्राप्नोति, सामर्थ्यस्य तदात्मभूतत्वात् । अर्थान्त. रत्वे घटादावनुपकारप्रसङ्गात् । सामज्ज्ञिानोत्पत्तेर्घटादीनां नित्यमग्रहणप्रसङ्गः, 20 नाकारणं विषय उपपद्यत इति । तस्यापि तत्र सामर्थ्य मिति चेत्, केवलोऽपि जनयेत् । सहकार्यपेक्षया जनयति, न केवल इति चेत्, अनुपकार्यस्य केयमपेक्षा ! ज्ञानाभिव्यतिरिति चेत् , नित्यं घटाद्यग्रहणप्रसङ्ग इत्यादि सर्व पुनरावर्तते । ततः परपरिकल्तिा अभिव्यक्तितॊपपद्यते । तस्मात् स न लिङ्ग लिनिभावः । तन्त्वाद्यवयवेभ्योऽन्यदवयवि द्रव्यं पटादि न कल्पनीयम्, ततः स्वभावानुपलब्ध्या सत्त्वस्य व्यक्तीकृतस्य तस्याभाव एव । 25 ततस्तैस्तस्य तेन वा तेषामनुमानं कुतः ! तत्सत्त्वेऽपि कारणादनुमानं न युज्यते व्यभि
१" एकार्थसमवाय इति हि द्वेधा-एकस्यार्थस्य समवाय एकत्रार्थे समवाय इति ।" -न्यायवार्तिकतात्पर्यटीका. १।१।५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org